Book Title: Anusandhan 2004 08 SrNo 29
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ August-2004 ग्रामान्तवि (नि) वसन्तमत्र मनुजास्तन्वन्ति सांवाहिनं त्र (त्रा) सं यच्छति सिंहिकातनुरुहो नान्ते वनान्तेऽपि मे । त्रासाद् मद्गतिरेष एव भगवान् भर्ताऽयमाद्यश्च मे मत्वेत्यङ्कमिषाद् यमीशमभजद् गौर्गौरवायाऽस्तु सः ॥८॥ ध्वस्ता मत्पतयः समेऽपि तरसाऽमुष्य प्रतापव्रजैः सर्वे मत्पतयो नमन्त्यमुमयं मत्स्वामिनां वाऽग्रणीः । विश्वेऽस्मिन् मम विश्वसंस्तुतमतेस्तद्दास्यमस्योचितं गौर्यत्पादयुगं श्रितोऽङ्कमिषतो मत्वेति वः पातु सः ||९|| स्वः शास्तीव धनं घनं तनुभृतामेनं घनच्छायया संछत्रः पटुपल्लवैः परिवृतो दास्यत्यसावादितः । एवं ज्ञापयितुं किमम्बुजभुवाऽमुष्यैकचिह्नच्छलादङ्केऽकारि वृषः श्रियं स तनुतां देवः सतां ज्ञानभूः ॥१०॥ स्त्री-स्तम्बेरम-कानन- द्रुम- नदी - भोज्याधिपा अप्सरःशुभ्रानेकप-नन्द [न] र्तुमहिरुड् गङ्गा-सुधा शक्रताम् । प्रापुर्यस्य पुरः स्थितास्त्रिजगतीनाथस्य तत् सोऽङ्कगोऽमुष्यैवाऽर्हति गां न्यधाद् विधिरतो यत्पादयोः सश्रिये ॥ ११ ॥ हन्यादूर्जितमार्यवृत्तविमुखं नेतैतदङ्कः स्मरं वैराग्याम्बुजपुञ्जभञ्जनकरी (रो) घात्योऽस्त्यथी (थो) मेऽपि सः । मत्वैवं भगवान् वृषं वरगतिर्योऽङ्के दधावात्मनस्तं संसारविकारवारिजविधुं वन्दामहे श्रीजिनम् ॥१२॥ आबाल्यादपि गोरसैः प्रियरसैः सन्तुष्टचित्तस्य मे । स्थातुं हीमुचि नोचितं च्युतधियां वृन्दे पशूनां ध्रुवम् । चक्रे यत्पदयोरुपास्तिमृषभो मत्वैवमङ्कच्छलात् तं छायासुभगं महीरुहमिवाऽध्वन्यः श्रये श्रीजिनम् ॥ १३ ॥ प्रोच्चैश्चित्तचमत्करी म[म] गति: सम्पत्तिहेतुर्नृणां बाल्यादप्यमुना बलेन सहजस्याऽप्याददे स्वामिना । Jain Education International For Private & Personal Use Only 7 www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110