Book Title: Anusandhan 2004 08 SrNo 29
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
August-2004
तद्बीजं रसमेनमैक्षवमिति श्रेयांसविश्राणितं
यः स्वामी निजकानने निहितवान् सोऽर्हञ् श्रियं रातु वः ||२०||
वृद्धिर्यस्य विषे विषेण च समं जन्मस्थितिः सद्विषागारे यद्विषिभिश्च वेष्टितमभून्नाम्नाऽमृतं यत्पुनः । स्वर्भोज्येन किमस्य तेन यतिनो मत्वेति दत्तं दधौ श्रेयांसेन रसाद् रसालजरसं यः श्रेयसे सोऽस्तु वः ॥२१॥
मा लात्वात्तमदङ्गजः प्रियवृषादानो बली मा[म] सावित्थं त्रासवता सता पविभृता श्रेयांसतां बिभ्रता । अन्यस्माद् विगतस्पृहस्य भवताद् भक्त्यै सुधाऽस्योपदा दत्तेतीक्षुरसा (स) च्छलाद् भगवतः सा यस्य सोऽस्तु श्रिये ॥२२॥
देशानिभ्यभरप्रभूतनगरान् हित्वा पुरं हास्तिनं
प्राप्तः पद्ममभूषयन्मम गृहं यो राजहंसः शुचिः । ज्येष्ठेनैव रसेन भुक्तिरुचिता ज्येष्ठस्य तन्मे पितुः पौत्रेणेति रसं प्रदत्तमदधद् यः पौण्डुमेष श्रिये ||२३|| चारित्रस्मितचक्षुषोऽपि दमिना पाणिग्रहो निर्ममे मर्त्यामर्त्यसमक्षमक्षयसुखानन्दाय भर्त्राऽमुना । तद्रोगो (तदयोगो) मधुराद्रसादधिगतादेवेति पौत्रेण यः प्रत्तं पौण्ड्रमपाद्रसं प्रभुरसौ भूयात् सतां भूतये ॥ २४ ॥ पीयूषं निपिबन् सुरैरिव हरिः शश्वत्सुपर्वाञ्चितो यादोभिर्मुदि रोधयन्निव पय: सिन्धो रसोल्लासवान् । भुञ्जानोऽञ्जलिना व्यलोकि मनुजै रक्षो रसं यो जिनो भूयाद् दीधितिक्लृप्तहेमविजयः स्वामी स वः शर्मणे ||२५||
श्री ऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ||२६||
श्रीहीरहीरविजयव्रतिराजपट्टपद्मांशुमद्विजयसेनमुनीन्द्रराज्ये ।
21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110