SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ August-2004 तद्बीजं रसमेनमैक्षवमिति श्रेयांसविश्राणितं यः स्वामी निजकानने निहितवान् सोऽर्हञ् श्रियं रातु वः ||२०|| वृद्धिर्यस्य विषे विषेण च समं जन्मस्थितिः सद्विषागारे यद्विषिभिश्च वेष्टितमभून्नाम्नाऽमृतं यत्पुनः । स्वर्भोज्येन किमस्य तेन यतिनो मत्वेति दत्तं दधौ श्रेयांसेन रसाद् रसालजरसं यः श्रेयसे सोऽस्तु वः ॥२१॥ मा लात्वात्तमदङ्गजः प्रियवृषादानो बली मा[म] सावित्थं त्रासवता सता पविभृता श्रेयांसतां बिभ्रता । अन्यस्माद् विगतस्पृहस्य भवताद् भक्त्यै सुधाऽस्योपदा दत्तेतीक्षुरसा (स) च्छलाद् भगवतः सा यस्य सोऽस्तु श्रिये ॥२२॥ देशानिभ्यभरप्रभूतनगरान् हित्वा पुरं हास्तिनं प्राप्तः पद्ममभूषयन्मम गृहं यो राजहंसः शुचिः । ज्येष्ठेनैव रसेन भुक्तिरुचिता ज्येष्ठस्य तन्मे पितुः पौत्रेणेति रसं प्रदत्तमदधद् यः पौण्डुमेष श्रिये ||२३|| चारित्रस्मितचक्षुषोऽपि दमिना पाणिग्रहो निर्ममे मर्त्यामर्त्यसमक्षमक्षयसुखानन्दाय भर्त्राऽमुना । तद्रोगो (तदयोगो) मधुराद्रसादधिगतादेवेति पौत्रेण यः प्रत्तं पौण्ड्रमपाद्रसं प्रभुरसौ भूयात् सतां भूतये ॥ २४ ॥ पीयूषं निपिबन् सुरैरिव हरिः शश्वत्सुपर्वाञ्चितो यादोभिर्मुदि रोधयन्निव पय: सिन्धो रसोल्लासवान् । भुञ्जानोऽञ्जलिना व्यलोकि मनुजै रक्षो रसं यो जिनो भूयाद् दीधितिक्लृप्तहेमविजयः स्वामी स वः शर्मणे ||२५|| श्री ऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ||२६|| श्रीहीरहीरविजयव्रतिराजपट्टपद्मांशुमद्विजयसेनमुनीन्द्रराज्ये । 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520529
Book TitleAnusandhan 2004 08 SrNo 29
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy