Book Title: Anusandhan 2004 08 SrNo 29
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ August-2004 13 स्पर्धामाश्रितया सहात्मपतिना यः पर्यणैषीत् स्त्रियौ द्वे मात्राऽपि समर्पिते इव युवा वः पातु सोऽर्हद्गुरुः ॥२०॥ यं चेन्दुं च विचिन्त्य चेतसि चिरं जैवातृकत्वात् समौ ब्राम्यौ तत्कृतये विधिर्विहितवान् कन्ये उभे सन्निभे । एकं वीक्ष्य वलक्ष[पक्ष] युगलं शुक्लैकपक्षं परं तद्दत्तामुदुवाह यस्तदुभयीमप्येककः स श्रिये ॥२१॥ सूर्यं वीक्ष्य रजस्वलामपि सदा भुञ्जानमम्भोजिनीनित्यैकाम्बरचारिणं च दयितं दुःखै शं व्याकुलाम् । छायां गां च समागतामिनतया ख्यातस्त्रिलोकीपतिः स्त्रीरूपां परिणीतवान् सपदि यस्तं संमुगः(संस्तुमः) स्वामिनम् ॥२२॥ मत्वा मामृषसं(भं) मदर्थमकरोद् गां स्पष्टमष्टश्रवा मां चेन्द्रं जयवाहिनीं जयकरीमेते च मामाश्रिते । नो लोकेशनिदेशलोप उचितश्चित्ते विचिन्त्येति यश्चक्रे द्रागुभयोस्तयोरुपयमं स्त्रीरूपयोः सोऽवतात् ॥२३॥ अस्त्यव्यस्तधनो महाव्रतिसुहृद् भतॆष मद्देवरो मत्सख्योरमुना समं परिणये स्यात् तद्वियोगो न मे । मत्वैवं शिवया वशाद्वयमिषाद् द्वे एव ते ढौकिते यः स्वामी परिणीतवाञ् शिवसखः श्रेयःश्रिये सोऽस्तु वः ॥२४॥ नेता य: कलयाम्बभूव कमलां लोलेक्षणाभ्यां रतिप्रीतिभ्यामिव मन्मथो हरिकुलोल्लासी कलावत्सुहृत् । स श्रीनाभिनरेशवंशसरसीजन्माब्जिनीवल्लभः कान्त्या तप्तनवीनहेमविजयः पुष्णातु वः सम्पदम् ॥२५।। श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥२६॥ ॥ इति पण्डितश्रीकमलविजयशिष्यभुजिष्य-पं. हेमविजयगणिविरचिते श्रीऋषभशतके कन्याद्वयविवाहवर्णनो नाम द्वितीयः स्तवः सम्पूर्णः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110