SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ तं विश्वत्रयचित्तचातकचयप्रह्लादने तोयदं श्रीमन्नाभिनराधिराजतनयं कुर्मो मनोवर्त्मनि ॥१॥ पात्रं पुष्टिपटुः पथः पथयिता प्राधान्यहेतुः प्रभुविश्वेऽस्मिन्नयमेव देवतिलको जज्ञे ममाऽहर्निशम् । यं भेजेऽङ्कमिषाद् वृषः शुभगतिर्मत्वेति सल्लक्षणं ध्यायामस्तमशेषदोषविमुखं नित्यं जिनाधीश्वरम् ||२|| पावित्र्येण कटिश्रिया विभुतया वर्यार्जवेणो (णा ) ऽपि यजिग्येऽहं विभुनाऽमुनाऽतिबलिना मत्वेति चिह्नच्छलात् । यं गौगौरव (गौर्गौरव) वानन्यगतिकः शिश्राय विश्वाधिपं दध्मः पद्ममिवाऽलिनः प्रणयिनस्तं तीर्थनाथं हृदि ||३|| अस्मिन् गर्भमुपेयुषि प्रथमतो दृष्टोऽहमस्याऽम्बया लक्ष्मीमेष मयैव विश्वविदितां धत्ते व (च) धन्योद्धुरः । अङ्केऽप्येष बिर्भात शस्तकमले मामेव देवोत्तमः सेवा मेऽस्य घटेत यं वृष इति ध्यात्वाऽऽश्रितस्तं स्तुवे ॥४॥ कुर्वत्या चरणं लसच्चरणया हृद्गोचरे धीमतां निन्ये पुष्टिमहं महस्विरसया गाढं गवास्यप्रभोः । अनुसंधान - २९ तेनाऽमुष्य निषेवणादहमदो भावी कृतज्ञाग्रणीर्ध्यात्वेत्थं भजति स्म लाञ्छनमिषाद् यं गौः स्तुमस्तं जिनम् ॥५॥ शश्वत्संश्रितसर्वमङ्गलमभूद् गात्रं च शक्ति शुभा मन्युध्वंसविधायिनीय नितमां भालं दलाब्जाद्भुतम् । ऐश्वर्यं गुरु यस्य विश्वविदितं तस्यैव पादाब्जयोः स्थाने मत्स्थितिरित्यकाममभजद् यं गौः स वः श्रेयसे ॥६॥ अस्मादस्मयचित्तवृत्तिसुभगात् सञ्जानया यद्गवा यच्छन्त्या रसमुज्ज्वलं प्रजनितः प्रौढप्रभावानहम् । किं तत् सूत्रितसर्वसम्मदमहं मुञ्चामि मातामहं यस्याऽङ्कं न जहौ वृषः सुखसखं मत्वेति सोऽस्तु श्रिये ||७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520529
Book TitleAnusandhan 2004 08 SrNo 29
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy