Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
December - 2003
११
मङ्गलार्थोऽनन्तरार्थो वा, यदा तु मङ्गलार्थस्तदा मङ्गलपूर्विका द्वितीयसर्गप्रवृत्तिरित्यावेद्यते यदा त्वनन्तरार्थस्तदा कुलपतिनिर्दिष्टपर्णशालायां निशानयनानन्तरमित्यावेदितम् ।
__ केचिदारम्भार्थं न मन्यन्ते । कुत्रचिदधिकारार्थोऽपि । योगशास्त्रभाष्यकारेण 'अथे'त्ययमधिकारार्थ इति भाष्यव्याख्यानादधिकारार्थोऽपि ॥१॥
तस्याः खुरन्यासपवित्रपांसु-मपांसुलानां धुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवाऽर्थं स्मृतिरन्वगच्छत् ॥२॥
तस्या इति । पांसवो दोषा पापानि वा सन्त्यासामिति पांसुलाःस्वैरिण्यः । 'स्वैरिणी पांसुला' इत्यमरः । 'सिध्मादिक्षुद्रजन्तुरुग्भ्यः' (७।२।२१।।) इति 'श्री सि०' सूत्रेण 'सिध्मादिभ्यश्च' (५।२।९७) इति 'पाणि०' सूत्रेण च पांसुशब्दात् लच्प्रत्ययः । न पांसुला: अपांसुलाः । तासामपांसुलानां-पतिव्रतानाम् । धुर्यग्रे। कीर्तियतुं योग्या कीर्तनीया-परिगणनीया ।
ईष्ट ईशितुं शीलमस्य वेति ईश्वरः । मनुष्याणामीश्वरः मनुष्येश्वरः । 'हितादिभिः' (३।१७१।।) इति 'श्री सि०' सूत्रेण हितादेराकृतिगणत्वात्तादर्थ्यचतुर्थ्यन्तस्याऽपि समासभवनात् धर्माय धर्मार्थं वा पत्नी धर्मपत्नी । एवमश्वघासादौ सर्वत्र । 'यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास' इति 'पाणिनीय'मते तु अश्वघासादिवत् धर्मपत्नीत्यत्राऽपि तादर्थ्य षष्ठीसमासः प्रकृतिविकार- भावाभावात् । तन्मते धर्मस्य पत्नी धर्मपत्नी । यथा- "पतिं धर्मरतं पत्नी साध्वी शुश्रु(श्रू)षते तु या ।
नित्यं त्वनन्यहृदया धर्मपत्नी तु तां विदुः ॥१॥" मनुष्येश्वरस्य धर्मपत्नी मनुष्येश्वरधर्मपत्नी । न्यसनानि न्यासाः । पूयते एभिरिति पवित्राः । खुराणां न्यासाः खुरन्यासाः । खुरन्यासैः पवित्रा: पांसवो यस्य स खुरन्यासपवित्रपांसुः, तं खुरन्यासपवित्रपांसुम्-शफनिक्षेपपूतरेणुम् । "शफं क्लीबे खुरः पुमान्" इत्यमरः । “रेणुद्वयोः स्त्रियो(यां) धूलिः पांसु(शुर्ना न द्वयो रजः" इत्यमरः । तस्याः धेनोः । मार्यतेऽन्विष्यतेऽनेनेति मार्गः । तं मार्गम्। १. अम० द्वि० मनुष्यवर्गे - १०५९ । २. अम० द्वि० क्षत्रियवर्गे - १५६६ । ३. अम० द्वि० क्षत्रियवर्गे - १६६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142