Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 59
________________ अनुसंधान-२६ अन्यत्राऽऽरम्भवान् यस्तु तस्याऽत्राऽऽरम्भशङ्किनः । अबोधिरेव परमा विवेकौदार्यनाशतः ॥१८।। तदुक्तम् अन्नत्थारंभओ धम्मेणारंभओ अणाभोगो । लोए पवयणखिसा अबोहिबीयंति दोसाय ॥१॥ इत्यादि बहु वक्तव्यं, तत्तु तत एवाऽवसेयम् । पितामहगुर्वादिबहुजनक्षयहेतुकसङ्ग्रामपराङ्मुखायाऽर्जुनाय युद्धप्रवर्तनोदेशेनोपदिष्टायां गीतायामपि पूर्वप्रतिपादितसात्त्विक्यादिभक्तित्रयस्वरूपसंवादित्रिविधकर्मस्वरूपमिदम् नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥२॥ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म तत्तामसमुदाहृतम् ॥३॥ त्रिविधकर्तृस्वरूपमपि तत्र मुक्तसङ्गोऽनहं वादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्धो निर्विकारः कर्ता सात्त्विक उच्यते ॥१॥ रागी कर्मफलप्रेप्सुर्लब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥२॥ अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥३॥ एवं च बुद्धिधृतिदानतपोज्ञानश्रद्धादीनामपि त्रिविधत्वं तत्र प्रतिपादितम्, तत्तत एवाऽवसेयम् । अत्र तु पर्युपासनारूपा भक्तिः । 'पूज्येष्वनुरागो भक्ति' रिति मल्लिनाथः । तया । उपपद्यन्ते स्मेति उपउपसर्गपूर्वात् पद्धातोः क्ते उपपन्नाः युक्तियुक्ताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142