Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०८
अनुसंधान-२६ औदार्यगाम्भीर्यगुणैर्गरिष्ठः, औनत्ययुक्तो विमलः स सार्वः । औद्धत्यहृद् रातु सुखं त्रिलोक्या औचित्यमा धरतीह यस्य ॥१६॥ अंतकनाशक चञ्चुरचेता, अंचति५ ना तव यश्चरणौ वै । अंकत६ आशु सुखानि गतागा, अंयुगऽनन्त जगद्धितकारिन् ॥१७॥ असम कामहतौ विहतैना अस्थितमानस नाशय दुःखम् । अस्तै कुवादिमतप्रतिमौजा अस्तुलभायुत तीर्थपधर्मः ॥१८॥ कनककान्तिसमानशरीररुक्, कलुषमेष निरस्यतु मामकम् । करणवारणवारणसद्धरिः कलगुणः किल शान्तिजिनेश्वरः ॥१९।। खनतु पापखनि करुणानिधिः, खलकलाम्बुजनाशनचन्द्रमाः । खरतरा अथ कुन्थुजिनेश्वरः खचरनिर्जरकिन्नरसंस्तुतः ॥२०॥
गगनमणिरिवेदं ज्ञानमाविष्करोति, गणधरवरराजो वस्तुजातं हि यस्य । गज इव तरुवन्दं नाशयैनो मदीयं,
गतिजितकरिराजोऽराऽऽप्त स त्वं प्रसद्य ॥२१॥ घोरचोररिपुभीतिविनाशी, घट्टितामृतरसः शुभदायी । घट्टयाश्वनिशमिष्टसमृद्धिं, घर्षिताऽकुशल मल्लिजिन त्वम् ॥२२॥
डाक्षरवक्रकुकर्मविनाशिन्, २ङाचयमाशु विधेहि विधातः । ङागत२३ सुव्रततीर्थप नित्यं
ङामदरोगसुखेतरहारिन्२४ ॥२३॥ १५. पूजयति ।
१६. प्राप्नोति । १७. परमब्रह्मसहित ।
१८. शिवतुल्यः । १९. आसि आश्चर्ये स्थितं मानसं यस्य स तथा तत्सम्बोधने अ:स्थितमानस । २०. क्षिप्त । २१. असः सूर्यस्य तुला यस्याः सा अस्तुला सा चासौ भा च अस्तुलभा, तया युतो
यः स तथा तत्सम्बोधने अस्तुलभायुत । २२. ङाचयं लक्ष्मीनिचयम् । २३. सिद्धिगत । २४. निन्दामदरोगदुःखनाशक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142