Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 114
________________ December - 2003 १०७ ऋद्धिप्रदाता सततं त्रिलोक्या, ऋध्यन्महासंयमरम्यलक्ष्म्या । ऋजस्व' पुण्यानि विशां वरश्री: ऋश्येङ्गरे पद्मप्रभतीर्थनाथ ॥९|| ऋकारमन्त्रेण सुजप्त एष, ऋदायक: स्यानितरां जनानाम् । "ऋभूत्करैरक्कितपादपद्म, ऋतामृतश्रीश्च सुपार्श्वसार्वः ॥१०॥ 'लुतकनतजनानां मङ्गलानि प्रदेया लफिडकपटहारी' सार्वचन्द्रप्रभ त्वम् । लुतनययतिराज्या गीतविख्यातकीति लरिव विशदतेजाः केवलज्ञानभास्वान् ॥११॥ लभिवन्द्रभूमीन्द्रकृतोपचर्य, लकारमन्त्रोपमनामधेयः । ललोकचक्रस्य ददातु बुद्धी-लुंजातसेव्य:१२ सुविधिः स्वयम्भूः ॥१२॥ एधित्वगम्भीर ३ उदारचेता, एनांसि नाशं नयतान्मुनीनाम् । एषोऽब्जसौम्याननशीतलेश, एकाग्रसद्ध्यानमना जिनेशः ॥१३।। ऐश्वर्यवृद्ध्यै भवताद्धतां हा, ऐरावताङ्गोपमवर्ण्यवर्णः । ऐन्द्रीं श्रियं योऽनुचकार सद्य, ऐश्यश्रियैकादशतीर्थपः सः ॥१४॥ ओघं मघानां विदधातु देवा ओजोयुता यस्य यशः स्तुवन्ति । ओक: कलानां च लसद्गुणाल्या, ओर्जाप्रदः१४ श्रीजिनवासुपूज्यः ॥१५॥ - १. स्तोतव्यज्ञानेत्यर्थः । २. पाकीकुरु । ३. धनदायकः । ४. सुरसधैः । ५. प्राप्तमुक्तिश्रीः । ६. सत्यकथनललोकानाम् । ७. ऋक् गतौ, इग्रति मिथ्यात्वं प्राप्नुवन्ति ये ते ऋफिड़ाः, कुतीथिन इत्यर्थः । बाहुलकात् फिडक् प्रत्ययः । ततः ऋफिडादीनां श्च इत्येनन ऋकारस्वरस्य तृत्वे लृफिडास्तेषां कपटं हरतीत्येवंशीलः लृफिडकपटहारी । ८. लः सप्तर्षीणां माता तस्यास्तनयाः पुत्रा लतयास्ते ते यतिनश्च लतनययतिनः सप्तर्षय इत्यर्थः, तेषां राजी श्रेणिस्तया । ९. अग्निः । १०. सुरेन्द्रभूपतिकृतसेवः । ११. मूर्खजनवृन्दस्य । १२. नागकुमारसेव्यः । १३. समुद्रगम्भीरः । १४. आ समन्तात् ऊर्जा जीवनं प्रददाति यः स तथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142