Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 117
________________ ११० अनुसंधान-२६ अथ भिन्नभिन्नपदार्थवर्णनो नाम द्वितीय: परिच्छेदः प्रारभ्यतेअमाप्रदः पातु भवाज्जनानां, अमन्त्रजप्तो हितकारकश्च । अउत्तरश्रीश्च नरायणस्स, अतुल्यभाल: कमलाभनेत्रः ॥१॥ टङ्कोपमो व्याजदृषद्विनाशे, टङ्कोज्झितः५ शर्मयुतो महेशः । टङ्गायुधेनाऽऽह तदानव त्वं, टक्या जनानां दुरितानि शीघ्रम् ॥२॥ ठत्वं विधाता मम सेवकस्य, ठग्यात्तमामक्षरमन्त्रकर्ता । ठेत्यक्षरं यो वलयेति नाम्ना, ठादेषु० मन्त्रेषु समाचचक्षे ।।३।। डिण्डीरपिण्डसमपाण्डुरशीलसेवी,* डीनाऽमलाऽनल्पसुकल्पकल्पः११ । डिम्बं१२ सुराणां शिखिवाहनो३ऽसौ, डिम्भ्या"त्तरामाऽऽहतदानवोधः ॥४॥ ढक्कादिवाद्यानि च यत्पुरस्तात्, ढौकन्त ऋद्धा मनुजाः स्मरन्तः । ढुढी सुदेवी प्रददातु बुद्धी ढौंक्या५ नितान्तं बुधलोकचकैः ॥५॥ * पद्येऽस्मिन् प्रथमचरणे वसान्ततिलकाया अवशिष्टे पादत्रये चेन्द्रवज्राया नियमानुसारेण च्छन्दोद्वैविध्यमिति । १. ज्ञानलक्ष्मीप्रदः । २. जो गूढरूपः । ३. ञः चन्द्रार्द्धमण्डलं तत्तुल्यं भालं ललाटं यस्य स तथा । ४. पाषाणदारकसमानः । ५. कोपरहितः । ६. खङ्गायुधेन । ७. हन्यात् । ८. ठस्य भावः ठत्वं, सठत्वमित्यर्थः । ९. हन्यात् । १०. विजयेषु । ११. प्राप्तनिर्मलप्रचुरसुवेदाङ्गनयः । १२. भयं डमरं वा । १३. कात्तिकेयः । १४. हन्यात् । १५. सेव्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142