Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 125
________________ अनुसंधान - २६ द्वाविंशतिजिनवरा अजितादयस्ते, स्वस्वप्रभाञ्चितसपादुकलेप्यबिम्बैः । अरुः श्रुतिमिति द्रढयन्ति यत्र श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१७|| वामे च पार्श्व इह सत्यपुरावतारः स्याद् दक्षिणे शकुनिकाङ्कितसद्विहारः । अष्टापदो भगवतः किल यत्र पृष्ठे, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१८|| नन्दीश्वरस्य गिरनारगिरीश्वरस्य, श्रीस्तम्भनस्य भविका अवतारतीर्थम् । संवीक्ष्य यत्र परमां मुदमुद्वहन्ति, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १९॥ स्वर्गाधिरोहभवने जगतां कृपालु-यंत्र प्रभुर्विनमिना नमिना च सेव्यः । तत्खड्गबिम्बनकृतापररूपयुग्मः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२०॥ श्रीषोडशो जिनपतिः प्रथमो जिनेन्द्रः, श्रेयांसनेमिजिनवीरजिनेन्द्रमुख्याः । शृङ्गं द्वितीयमिह यत्र पवित्रयन्ति, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२१॥ त्रैलोक्यलोचनचकोरकचन्द्रिकाभा, सुस्वामिनी शिवगता मरुदेविनाम्नी । यत्र प्रयच्छति निजं सुखसंविभागं, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ २२ ॥ यत्रैष भव्यजनकल्पितकल्पवृक्षः श्रीसङ्घरक्षणमहर्निशबद्धकक्षः । अष्टासु दिक्षु वितनोति कपर्दियक्षः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२३|| ११८ इत्येवंविधपुण्डरीकशिखरिस्तोत्रं पवित्रं मुदा । श्रीमन्नाभिननरेन्द्रनन्दनजिनध्यानैकतानव्रतः ॥ श्रद्धाबन्धुरमानसः पठति यः सन्ध्याद्वये नित्यशः । स्थानस्थोऽपि निरन्तरं स लभते तत्तीर्थयात्राफलम् ॥२४॥ Jain Education International ॥ इति श्रीशत्रुञ्जयचैत्यपरिपाटिका समाप्ता ।। C/o. यश मोटर्स १३८७/१, मुखीवास, मीठाखली, अमदावाद- ३८०००६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142