Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
९५
महत्पुण्यम् । यज्ञेऽपि मांसभक्षणकरणेन सौत्रामणियागेऽपि सुरापानाकरणेन ऋतुं विना स्वस्त्रियं प्रत्यप्यगमनेन महत्फलमिति तात्पर्यम् । एवं बहुविधानि तद्व्याख्यानान्युपलभ्यन्ते, न तानि समीचीनानि । सम्यग्दृष्टिस्तु मिथ्यावाक्यमपि तत् सम्यक् परिणमय्यैवं व्याख्याति - भूतानामनादिमिथ्यावासनाग्रस्तप्रवृत्तिमत्त्वाद्यद्यपि प्रवृत्तिर्भवति, तथाऽपि अकारप्रश्लेषात् मांसभक्षणेऽदोषो न, किन्तु द्वौ न प्रकृतमर्थं दृढयतः इति दोष एव । एवं मद्येऽदोषो न, किन्तु दोष एव निवृत्तेर्महाफलवत्वेन वर्णितत्वात्प्रवृत्तेर्दोषवत्त्वं सुज्ञानमेवेति अकारप्रश्लेषेण व्याख्यानं युक्तम् । 'निवृत्तिस्तु महाफला' इत्यस्य तु यथाश्रुतमेवाऽर्थः । मांसशब्दार्थोऽपि मांसभक्षणं निषेधयति । तथा चाऽऽह
December 2003
-
मां स भक्षयित्वाऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ इति ।
एवमेव श्रुतिवचनान्यप्यसमञ्जसानि । " वायव्यं पशुमालभेत भूतिकामः, स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेत" इति पतञ्जलिप्रणीतमहाभाष्योद्धृतश्रुतिवाक्यम् । एवं बहुशो वेदे सर्वत्र स्थाने स्थाने हिंसाप्रतिपादकानि वचांसि श्रूयन्ते ।
ननु कथं वेदात्मके शास्त्रे एवं प्राणिव्यापादनस्वरूपं श्रूयते इति चेत् । प्राचीनानामहिंसाप्रधानानां भरतप्रणीतानामार्यवेदानां लोपे मांसलुब्धर्ष्यादिभिस्तन्नाम्नैव तस्य प्रणीतत्वात् । संभाव्यते चैतत् यत् अत एव 'श्रुति 'रिति तस्य नाम । श्रुतिशब्दः श्रवणश्रुतिरिति शब्दशक्तिबलादेव ज्ञापयति । पूर्वमार्या अहिंसापरायणास्तत्तद् हिंसासूचकं वचोऽभिगम्य तान्प्रपच्छुर्यदुत 'मा हिंस्यात् सर्वभूतानि' इति सर्वजनविदितमहावाक्यविरोधिवाक्यानि हिंसात्मकानि उपदिश्यन्ते तत्र किं प्रमाणम् ? तदा ते उत्तरदानाक्षमा ऊचु:-“अस्माभिरेतच्छ्रुतमेतच्छ्रुतमतस्तस्य श्रुतिरिति नाम संवृत्तम्" । कथं तत्प्रमाणीक्रियेत ?
Jain Education International
अथाऽस्त्वेतत् । किन्तु मन्वादिभिस्तु मांसभक्षणबहुलां प्रजामुपलभ्य तां नियमितुमेवमुक्तं यद्, 'मांसं चेत् भक्षयतु तदा यज्ञ एव नियुक्तीभूय नेतरथा' इति नियमं सूचयति । तदप्यसाम्प्रतम् । मांसभक्षणाकरणे प्रत्यवायस्य 'नियुक्त 'स्त्वित्यादिवाक्येनाऽप्रतिपादनान्न मनुवचनानि निषेधैदम्पर्याणि किन्तु मांसभक्षणप्रवर्तकानि । तद्वचनानामपि स्मृत्यभिधात्वेन प्रमाणाभाववन्त्येव
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142