Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
९८
अनुसंधान- २६
वा तान् छित्त्वा भक्षणायाऽऽदिशति (न्ति) ते होरमजदेनाम्ना पारसिकपरमेश्वरेण वध्या ' इति कथितम् । यद्वा ते दुष्टा दूरीकर्तव्या इति कथितम् । 'ये जना: पवित्र(नेक) निर्देशानवगणय्य पशून् छित्त्वा भक्षणं विधास्याम इति दुष्टविचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुं अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते' ।
अन्यदपि जमीयादयस्तनामकस्याऽष्टपञ्चाशे आलापे(फकरो) जरथोस्तप्रभृतिषु तदीयधर्मपुस्तकेषु च पशुहिंसाया मांसभक्षणस्य च दृढतया निषेधो वरीवर्ति । किञ्च ते पारसिकाः स्वकीयं पूज्यं (परवरदीगारं) 'पशुपालक: पशुप्रेमी' त्यादिसंज्ञयाऽद्याऽपि स्मरन्तः श्रूयन्ते । फुट्स एण्ड फेरीनेशीयानामके पुस्तकेऽपि लिखितमस्ति यत्, 'पारसिकानां प्राचीना धर्मगुरुवः सदैव फलपुष्पादीन भक्षयन्तौ (न्तो) बभूवुः' ।
प्लेनीनामकः प्रसिद्धस्तत्त्ववेत्ता स्वकीये एकादशे पुस्तके लिखति यत्, 'जरथोस्त: अलबरुझपर्वतगुहायां (खुदाताला) परमेश्वरप्रार्थनायै मोनाजातये च विंशतिं वर्षाणि लीन आसीत् । शरीरपोषणं स्वनिर्वाहं केवलं पनीरफलदुग्धभक्षणेनाऽकार्षीत्' इत्यादि ।
,
अपि च रावजीवोरा जातीया ये प्रसिद्ध्या लोटीया वोरा उच्यन्ते । तेऽपि मांसादनस्याऽतिनिन्दितत्वात् कदाऽपि मांसं नाऽदन्ति । अत एव तेषां 'नगोसीया ( न मांसादाः) नमांसीया इति वा' इति प्रसिद्धिः । तदीयधर्मपुस्तकेष्वप्युक्तं तद्भाषया
"फला तज अलू बुतून कुम मकावरल हयवानात" । अयमर्थः - पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्या: । अयमाशयः तान् हत्वा नाऽत्स्यसीति ।
महम्मदीयानामपि कुरानेशरीफनामकधर्मपुस्तकस्थसूराअनआमविभागस्य आयतनामके एकशतद्विचत्वारिंशे प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेण स्पष्टं निर्दिष्टं यत्
"व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजककुमुल्लहो" ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142