Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 106
________________ December - 2003 ९९ अयं भावः-अल्लानामेश्वरेण चतुष्पदेषु कतिचिद्भारोद्वहनाय सृष्टाः । भक्षणाय च भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद्यूयमद्यात । अपि च तस्मिन्नेव सूरा-अन-आगमप्रकरणे रुधिरमांसभक्षणनिषेध उक्तः । बकरी इद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः हुशनग्रन्थस्य सुराहज्जविभागस्य षट्विशे आयातनामके प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेणोक्तः । तेन स्वयं तत्र प्रतिपादितं-मांसं शोणितं वा न मां मिलिष्यति, अपि तु निवृत्त्या प्रार्थनयैव वाऽहं तुष्टो भविष्यामि । अपि चाऽद्याऽपि यदा कोऽपि महम्मदीयः शालेक(क:) शरीयतप्रदेशात् टरपीटप्रदेशं प्रविशति तदा सोऽपि मांसादनस्य दूषितत्वात् मांसभक्षणात् त्वरितमेव निवर्तते । आङ्ग्लभूमिजानामपि बाइबल नामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं यत्-"Thou shalt not kill (Advice to Moses) || अयं भाव:-त्वं न कमपि जीवं हन्याः । पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं यत्-'And ye shall be holy-man unto me neither shall ye eat any flesh that is torn of beasts in the fiedls. अयं भाव:-त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं नाऽद्याः । बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं यत् 'The Primitive injunction of God to man at the creation was Behold I have given you every harb bearing Beed, which is upon the face of all the earth, and every tree in which is the fruit of a tree yeilding seed to you it shall be for meat (Gen. I-29) अयं भावः-परमेश्वरेण . मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, "अवहितव्यं भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजाः वल्ल्यादयः सबीजफला वृक्षाश्चाऽपितास्तदेव भवद्भक्षणायाऽलम् । भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः । तथैव हुसीयानामकपुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142