________________
December - 2003
९९
अयं भावः-अल्लानामेश्वरेण चतुष्पदेषु कतिचिद्भारोद्वहनाय सृष्टाः । भक्षणाय च भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद्यूयमद्यात ।
अपि च तस्मिन्नेव सूरा-अन-आगमप्रकरणे रुधिरमांसभक्षणनिषेध उक्तः । बकरी इद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः हुशनग्रन्थस्य सुराहज्जविभागस्य षट्विशे आयातनामके प्रकरणे अल्लाताला इति नाम्ना तदीयेश्वरेणोक्तः । तेन स्वयं तत्र प्रतिपादितं-मांसं शोणितं वा न मां मिलिष्यति, अपि तु निवृत्त्या प्रार्थनयैव वाऽहं तुष्टो भविष्यामि । अपि चाऽद्याऽपि यदा कोऽपि महम्मदीयः शालेक(क:) शरीयतप्रदेशात् टरपीटप्रदेशं प्रविशति तदा सोऽपि मांसादनस्य दूषितत्वात् मांसभक्षणात् त्वरितमेव निवर्तते ।
आङ्ग्लभूमिजानामपि बाइबल नामकधर्मपुस्तकस्य विंशतितमे प्रकरणे कथितं यत्-"Thou shalt not kill (Advice to Moses) ||
अयं भाव:-त्वं न कमपि जीवं हन्याः ।
पुनरपि तस्यै [व] द्वाविंशे प्रकरणे प्रोक्तं यत्-'And ye shall be holy-man unto me neither shall ye eat any flesh that is torn of beasts in the fiedls.
अयं भाव:-त्वं मां प्रति पवित्रतया वर्तेथाः । वन्यान् पशून् हत्वा तदीयं मांसं नाऽद्याः ।
बाइबलात् पुरातने जेनीसीसपुस्तकेऽप्युक्तं यत्
'The Primitive injunction of God to man at the creation was Behold I have given you every harb bearing Beed, which is upon the face of all the earth, and every tree in which is the fruit of a tree yeilding seed to you it shall be for meat (Gen. I-29)
अयं भावः-परमेश्वरेण . मनुजोत्पत्तेरेवं खल्वादावेवाऽऽदिष्टं यत्, "अवहितव्यं भवद्भिः, यदुत मया भवद्भ्यः पृथ्वीतलोपर्युद्गच्छन्तः सबीजाः वल्ल्यादयः सबीजफला वृक्षाश्चाऽपितास्तदेव भवद्भक्षणायाऽलम् । भवद्भिरेतदेव भक्षणीयं नाऽन्यदिति" तदाशयः ।
तथैव हुसीयानामकपुस्तकस्याऽष्टमाध्याये पञ्चदशे आयातनामके प्रकरणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org