Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 103
________________ ९६ अनुसंधान-२६ शब्दशक्तिबलादेव नाङ्गीकारार्हाणि च यत्, तत्राऽपि पूर्ववत् आर्याणां प्रश्ने मन्वादिरेवमाचख्यौ यद् एवं मे स्मृतम् एवं मे स्मृतम्' इति । ततः सर्वत्र स्मृतिनाम्ना तत्प्रसिद्धिः । किञ्च हिंसाविधीनुक्त्वैव न ते विरताः, अपि तु पशुमारणप्रकारानपि अधिकरणरत्नमालादिषूक्तवन्तो यत् सदयानामार्याणां श्रवणेऽप्यनर्हाणि तद्वचनानि । ' मा हिंस्यात्सर्वभूतानि ' इत्येतन्महावाक्यमादौ यदुक्तम्, तदपि दयाविरोधिवचनश्रवणावगणयन्तीमार्यप्रजामुपलभ्य तस्या विप्रलम्भनाय, यद्वयमपि 'अहिंसां प्रथमतयैवमनुमहे' इति विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव । यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि) खति अपि तु विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं 'मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः कलिकालसर्वज्ञबिरुदधारिणः श्री हेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्तः 'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिक: । छन्नरक्षो न जैमिनिः' । किञ्च यदि 'यज्ञे हताः पशव उत्तमां गतिमाप्नुवन्ती' ति चेद् युष्मत्सिद्धान्तस्तदा स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टे न तेषु ते भक्ति: । अपि च यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते । आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति येषु केषुचिदन्यदृशां शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयता दर्शकानि वचनानि तानि कतिचिदुद्ध्रियन्ते । महाभारतानुशासनपर्वणि न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ॥ इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142