Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
December - 2003
५९
दुधातो वे घत्रि दोहनं [वा] दोहः । अवसीयतेऽनेनेति अवसानम् । "आघाटस्तु घटोऽवधि: अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि" इति हैमः । 'पाणि०' मते तु अवसाय: अवसानं नपुं०, अवपूर्वात् साधातो वे ल्युट्- "विरामे, समाप्तौ, सीमायां, मृत्यौ च" । अत्र तु समाप्त्यर्थः विरामार्थो वा । दोहस्याऽवसानं दोहावसानम्, तस्मिन् दोहावसाने । निषीदति स्मेति निषण्णा, तां निषण्णाम्-आसीनाम् । दोहनशीलां दोग्ध्रीम् । अत्र दुधातोस्तृन्प्रत्यये च स्त्रियां ङीपि दोग्ध्री । दोग्ध्रीमिति निरुपपदप्रयोगात् कामधेनुत्वं गम्यते ।
पुनातीति पु(पू)सन्यमिभ्यः पुनसनुतान्ताश्च ॥९४७॥ इति 'उणादिश्रीसि०' सूत्रेण अप्रत्यये पुनादेशे च द्वित्वे च पुनः पुनः । “भूयोऽभीक्ष्णं पुनः पुनः असकृन्मुहुः" इति हैमः । "पाणि०" मते तु पणधातोररुप्रत्यये पृषोदरादित्वात् पुन: । अव्ययम् । “अवधारणे, भेदे, अधिकारे, पक्षान्तरे, द्वितीयवारे च" । अत्र तु द्वितीयवारार्थः । इण्धातोर्वति प्रत्यये एवाऽव्ययम्, “सादृश्ये, अनुयोगे, अवधारणे, चारनियोगे, विनिग्रहे, परिभवे ईषदर्थे च । विशेष्यसङ्गतोऽन्ययोगव्यवच्छेदे यथा- 'पार्थ एव धनुर्धर' इत्यादौ, पार्थान्यपदार्थे प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते । विशेषणसङ्गतोऽयोगव्यवच्छेदे यथा- 'शङ्ख पाण्डुर एवे' त्यादौ, शङ्के पाण्डुरत्वायोगो व्यवच्छिद्यते । क्रियासङ्गतोऽत्यन्तायोगव्यवच्छेदे यथा'नीलं सरोजं भवत्येवे'त्यादौ, सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते । गन्तरि त्रिलि० ।" अत्र तु अवधारणे । भेजे-सिषेवे ॥
वाच्यपरिवर्तनं त्वेवम् - भुजोच्छिन्नरिपुणा दिलीपेन सदारस्य गुरोः पादौ निपीड्य सान्ध्यं विधिं च समाप्य दोहावसाने निषण्णा दोग्ध्री पुनरेव भेजे ॥
अरिक्षयकर्ता दिलीप: आश्रमं समागत्य दम्पत्योः वसिष्ठारुन्धत्योः पादौ भक्त्या संवाह्य, मल्लिनाथमते तु पूर्वं वसिष्ठमरुन्धती च भक्त्या ववन्दे । ततो निजं सायंकालिकमनुष्ठानं समाप्य दोहो(हा)वसाने सुखासीनां तां नन्दिनीमेव पुनः सेवितवान्, इति सरलार्थः ॥२३॥
१. अभि० चि० च० ९६२ । २. अभि० चि० ष० १५३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142