Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७०
अनुसंधान-२६ 'रुह्-प्ररोहणे' धातोः कर्तरि क्ते विरूढानि । “विरूढशब्दः त्रिलि० जाते अङ्कुरिते च' । शीयत इति 'शदि-बाधि-खनि-हनेः (ने) षः च' ॥२९९॥ इति 'उणादिश्रीसि०' सूत्रेण 'शद्लं-शातने' धातोः 'प'प्रत्यये षान्तादेशे च शष्पंबालतृणम् । यद्वा शषतीति 'शष्-हिंसायां' धातोः 'प प्रत्यये, 'पाणि०' मते च 'पक्' प्रत्यये शष्पम् । "शष्पं तु तदनेवं (तद् नवम्)" इति हैमः । 'तत् तृणं नवोद्भिन्नं बालम्' इति तद्वृत्तिः । “शष्पं बालतृण(णं) घासः" इत्यमरः । "शष्पं नपुं० बालतृणघासे; प्रतिभाक्षये पुं०" । गङ्गाप्रपातान्ते जाह्नवीपतनप्रदेशसमीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्य तदिति गङ्गाप्रपातान्तविरूढशष्पम् ।
गौरत्वात् गौरशब्दात् 'गौरादिभ्यो मुख्यान् ङीः ।२।४।१९॥ इति श्रीसि०' सूत्रेण ङीप्रत्यये, 'पा०' मते च ङीप्प्रत्यये गौरी-पार्वती । "गौरी काली पार्वती मातृमाताऽर्पणा रुद्राण्यम्बिका त्र्यम्बकोमा दुर्गा चण्डी सिंहयाना मृडानी कात्यायन्यौ दक्षजाऽऽर्या कुमारी सती शिवा महादेवी शर्वाणी सर्वमङ्गला भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा निशुम्भ-शुम्भ-महिष मथनी भूतनायिका" इति हैमः। हैमशेषश्च
गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया । कालरात्रिः महामाया भ्रामरी यादवी वरा ॥१॥ बहिर्ध्वजा शूलधरा परमब्रह्मचारिणी । अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी ॥२॥ जाङ्गली बदरीवासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ॥३॥ महाविद्या सीनीबाली स्कदन्त्येकपाटला । एकपर्णा बहुभुजा नन्दपुत्री महाजया ॥४॥
१. अभि० चि० तृ० ११९१ । २. अम० द्वि० वनौषधिवर्गे - ९८३ । ३. अभि० चि० द्वि० २०३-४-५ ४. अभि० चि० हैमशेषे ४९-६१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142