Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 79
________________ ७२ अनुसंधान-२६ गूयते इति वा [गौरः] 'खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र-धूम्रान्ध्ररन्ध्रशिलीन्ध्रौड्र-पुण्ड्र-तीव्र-तीव्र-शीघ्रोग्र-तुग्र-भुग्र-निद्रा-तन्द्रा-सान्द्र-गुन्द्रारिज्रादयः' ॥३९६॥ इति 'उणादिश्रीसि०' सूत्रेण गौर इति रान्तो निपातः । गौर:अवदातः, ततो ड्यां गौरी-स्त्रीधर्मरहिता । गूयते उपादेयतया गौरी । “गौरी तु नग्निकाऽरजाः" इति हैमः । ___'अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्'- इति च स्मार्तो विशेषः । गौरी स्त्री० । "शोन्दुकुन्दधवला, ततो गौरी तु सा मता ॥" इत्युक्त्यां पार्वत्याम्, "अष्टवर्षा भवेद्गौरी" इत्युक्त्यामष्टवर्षायां असञ्जातरजस्कायां कन्यायाम्, हरिद्रायाम्, दारुहरिद्रायाम्, गोरोचनायाम्, प्रियङ्गौ, भूमौ, नदीभेदे, मञ्जिष्ठायाम्, श्वेतदूर्वायाम्, मल्लिकायाम्, तुलस्याम्, स्वर्णकदल्याम्, आकाशमांस्याम्, रागिणीभेदे च" । अत्र तु पार्वत्यर्थः । गौर्याः गुरुः गौरीगुरुः, तस्य गौरीगुरो:-पार्वतिपितुः - हिमाचलस्येत्यर्थः । गृहति गाह्यते वेति 'तीवर-धीवर-पीवर-छित्वर-छत्त्वर-गह्वरोपह्वरसंयद्वरोदुम्बरादयः' ॥४४४॥ इति 'उणादिश्रीसि०' सूत्रेण वरट्प्रत्ययान्ता(त)निपातने गह्वरम् । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । यद्वा गह्वाः सन्त्यत्रेति वा अश्वादित्वाद् रनिपातने गह्वरम् । “अखातबिले तु गह्वरं गुहा" इति हैमः । रुदितविशेषो वा गह्वरम् । “तदपुष्टं तु गह्वरं(रः)" इति हैमः । तद् रुदितम् अपुष्टं गद्गद्स्वरत्वाद् जातोच्चपूत्कारं गाहते हृदयान्तरिति गह्वरम् । 'जठर-क्रकर-मकर-शङ्कर-कर्पर-कूर्पर-तोमर-पामर-प्रामर-प्राद्मर-सगर-नगरतगरोदरादर-शृदर-दृदर-कृदर-कुकुन्दर-गोर्वराम्बर-मुखर-खर-डहर-कुञ्जराजगरादयः' ॥४०३॥ इणि 'उणादिश्रीसि०' सूत्रेण गाहधातोः किदरप्रत्ययान्तो निपातः । 'पा०' मते तु गह्वर पु०, गाधातोर्वरच्प्रत्यये निपात्यते । “निकुञ्ज, दम्भे, स्ने, रोदने, विषमस्थाने, अनेकानर्थसङ्कटे च नपुं० गुहायां नपुंस्त्री०" | १. अभि० चि० तृ० ५१० । २. अभि० चि० च० १०३३ । ३. अभि०चि० ष० १४०२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142