Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७६
अनुसंधान-२६ भावे ल्युटि उत्पतनमिति, उत्पत्यते इति उत्पतनम्, ऊर्ध्वगमने उत्पत्तौ च । आभिमुख्येन उत्पतनं अभ्युत्पतनम् । अलक्षितं अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतन:-अदृष्टाक्रमणः ।।
हिनस्तीति सिंहः । "हिंसेः सिम् च' ॥५८८॥ इति 'उणादिश्रीसि०' सूत्रेण 'हिंसुप्-हिंसायाम्' इत्यस्माद् धः प्रत्ययः अस्य च सिमादेशः सिंह:मृगराजः । यद्वा हिंस्धातोरचि पृषोदरादित्वात् सिंहः । “सिंहः कण्ठीरवो हरिः, हर्यक्षः, केसरीभारिः, पञ्चास्यो, नखरायुधः, महानादः, पञ्चशिखः, पारिन्द्रः, पत्यरी, मृगात्, श्वेतपिङ्गोऽपि" इति हैमः । सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेषः । "सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे स्यादुत्तरस्थश्च" इत्यनेकार्थसङ्ग्रहः । सिंहः चतुर्विंशस्य जिनपतेलाञ्छनं भगवतो वर्द्धमानस्वामिनः । 'पा०' मते सिन्धातोः कप्रत्यये हिंस्धातोरचि वा पृषोदरादित्वात् "सिंहः पुंस्त्री०, 'सिंहो वर्णविपर्ययात्' । स्वनामख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः पञ्चमे राशौ च, पदान्तस्थः श्रेष्ठार्थे च" । अत्र पशुभेदः मृगराजः । "सिंहो मृगेन्द्रः पञ्चास्यः" इत्यमरः । प्रहसनं (प्रसहनं) पूर्वमति प्रसह्य हठे । "हठे प्रसह्य" इति हैमः । यथा-'प्रसह्य वित्तानि हरन्ति चौराः' । 'पा०' मते प्रपूर्वात् सधातोः ल्यपि प्रसह्य अव्ययं हठादित्यर्थे । "प्रसह्य तेजोभिरसङ्ख्यतां गतः" इति माघः । "प्रसह्य तु हठार्थकम्" इत्यमरः । किल्धातोः कप्रत्यये किल अव्ययं, "वार्तायाम्, अनुशयार्थे, निश्चये, सम्भाव्ये, प्रसिद्धप्रमाणद्योतके, सत्ये, हेतौ, अरुचौ, अलीके, तिरस्कारे च" । अत्र किलेत्यलोके ॥
वाच्यपरिवर्तनं त्वेवम् -तया हिंस्रैर्मनसाऽपि दुष्प्रधर्षया (भूयते) इति अद्रिशोभाप्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनेन सिंहेन प्रसह्य सा चकृषे ॥
किल महाप्रभावामिमां कामधेनुम् । सिंहादयो मनसाऽप्यभिभवितुं न प्रभवन्तीति निश्चित्य पर्वतशोभावलोकनदत्तदृष्टिना भूपेनाऽवलोकित एव सिंहो झटिति हठात् तां कामधेनोर(नुम)लीकमाययाऽऽक्रान्तवान्, इति सरलार्थः ॥२७।। १. अभि० चि० च० १२८३-८४-८५ । ४. अम० द्वि० सिंहादिवर्गे - ९८९ । २. अभि० चि० हैमशेषे १८४-८५ । ५. अभि० चि० ष० १५३९ । ३. अनेकार्थसङ्ग्रहे द्वि० ५९०-९१ । ६. अम० तृ० अव्ययवर्गे - २८६९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142