Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 93
________________ ८६ अनुसंधान-२६ अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोनी नैचिकीत्यादिरूपा गौाह्या । "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वजे भूमिविषौ गिरि" इत्यनेकार्थसङ्ग्रहः । दशस्वर्थेषु स्त्रीपुंसाः । अन्ये तु "वागादौ स्त्रियाम्, स्वर्गादौ पुंसि, पशौ द्वयोर्जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-'गावो वहन्ति विमलाः शरदि स्रवन्त्याम्' । दृशि यथा-'गोजलाद्रितकपोलतलास्ताः' । स्वर्गे यथा-'स गोपतिर्वज्रविघट्टनेन' । दिशि यथा-'गोभ्यः संभृतसद्वित्तः' । पशौ यथा-'गावश्चरन्ति कमलानि सकेसराणि' । रश्मौ यथा-['गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरेरिवाशु पशवः प्रपलायमानैः ।।] (कल्याणमन्दिरे) । वजे यथा-'गोघातेनैव शैलाः" । भूमौ यथा-[जुगोप गोरूपधरामिवोर्वीम्(?)]। (रघौ) | इषौ यथा'गोभिः संभिन्नसन्नाहः' । गिरि यथा -[.....] ॥ गिरि-यथा आविष्कृताशेषपदार्थसार्था दोषानुषक्तं तिमिरं विधूय । गावः प्रथन्तेऽस्खलितप्रचारा यस्येह तं वीररविं प्रणम्य ॥१॥ ___ इति जिनेश्वरसूरयोऽष्टकवृत्तौ । अत्र वीरपक्षे वाणी रविपक्षे च किरणः इति । 'पा०' मते तु गच्छतीति 'गम्ल-- गतौ' धातोः डोप्रत्यये गौः पुं० । "वृषभे, स्वर्गे, किरणे, वज्र, जले, पशौ, चन्द्रे, वायौ, सूर्ये, ऋषभनामौषधौ च, सौरभेय्याम्, दृष्टौ, बाणे, दिशि, मातरि, वाचि, भूमौ च स्त्री०" । अत्र तु सौरभेयी ।। अथ गोशब्दस्य गच्छतीति गौरिति व्युत्पत्त्या गति-क्रियावत्येव सुरभिर्वाच्योऽर्थस्स्यात्तथा च स्थितायामुपविष्टायां वा गमनाभाववत्यां गवि गोशब्दप्रवृत्तिर्न स्यादिति चेत् । न । व्युत्त्पत्तिमात्रमेवैतद्गच्छतीति गौरिति, न तु प्रवृत्तिनिमित्तम् । अन्यथा गमनक्रियावति पुरुषेऽपि गोशब्दप्रवृत्तिः स्याद्, न च सा भवतीति प्रवृत्तिनिमित्तबलादेव वाच्ये वाचकप्रवृत्तिः । प्रवृत्तिनिमित्तत्वं च "वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" । तस्यां गविकामे(म)धेनौ । ___ तस्थौ इति 'ष्ठां-गति-निवृत्तौ' धातोः 'तत्र क्वसुकानौ तद्वत् (५।२।२।।) १. अनेकार्थसङ्ग्रहे प्र० ६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142