Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 96
________________ December - 2003 इत्युक्तेषु अष्टसु, ___ 'सुवर्णं रजतं तानं लौहं कुप्यं च पारदम् । रङ्गं च सीसकं चैव इत्यष्टौ देवसंभवाः' । इत्युक्तेषु अष्टसु वस्तुषु । लोकेषु सर्वसाधारणत्वात्परमेश्वरे ‘स एष चिद्धातुः' इति श्रुतिः, व्याकरणोक्ते -गणपठिते क्रियावाचके भूप्रभृतौ, शब्दभेदे च । इह तु गौरिकाद्यर्थः । धातोर्विकार इति धातुशब्दात् विकारार्थे मयटि 'दोरप्राणिनः' (६।२।४९।।) इति 'श्रीसि०' सूत्रेण 'पा०' मते ते (तु) 'नित्यं वृद्धशरादिभ्यः' [४।३।१४४॥] इति सूत्रेण च 'अणमेयेकण्ननश्टिताम्' (२।४।२०॥) इति 'श्रीसि०' सूत्रेण 'टिड्ढाणद्धयसज्दघ्नमात्रच्तयप्ठक्ठकञ्चरपः' [४।१।१५॥] इति 'पा०' सूत्रेण च ङीपि धातुमयी। तस्यां धातुमय्यां-गैरिकादिधातुप्रचुरायाम्। पर्वतमधिरूढा ऊर्ध्वभूमिरिति 'उपत्यकाधित्यके' (७१।१३१॥) इति 'श्रीसि०' सूत्रेणाऽधित्यकेति निपातः । “अधित्यकोर्श्वभूमिः स्यात्" इति हैमः । 'पा०' मते 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' [५।२।३४॥] इति सूत्रेण त्यकन्प्रत्यये अधित्यका । "उपत्यकानेरासन्ना भूमिरुर्ध्वमधित्यका" इत्यमरः । प्रफुल्लतीति 'फुल्ल्-विकासे' भ्वादिः पर० अक० सेट्धातोः अप्रत्यये, 'पा०' मते च पचाद्यचीति अच्प्रत्यये प्रफुल्लम्-विकसितम् । "प्रबुद्धोज्जृम्भ-फुल्लानि व्याकोशं विकचं स्मितम्; उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम्, प्रफुल्लोत्फुल्लसम्फुल्लोच्छसितानि विजृम्भितम्; स्मेरं विनिद्रमुनिद्रविमुद्रहसितानि च" इति हैमः । 'जिफला-विशरणे' इति धातोः कर्तरि ते 'उत्पस्यातः' [७।४।८८॥] इति 'पा०' सूत्रेण उकारादेशे प्रफलतीति प्रफुल्लम् । ___ रुणद्धि व्रणमिति रोधः, लत्वे लोध्रः । "लोधे तु गालवो रोध्र-तिल्वशावर-मार्जनाः" इति हैमः । 'पा०' मते तु रुध्धातोः रप्रत्यये रस्य लत्वे च लोध्रः । द्रु शाखाऽस्त्यस्येति 'धुद्रुभ्याम्' ॥ ७४४॥ इति 'उणादिश्रीसि०' सूत्रेण 'द्रु-गतौ' धातोः डिति उप्रत्यये द्रुः-वृक्षशाखा-वृक्षश्च । "वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिद्रर्दुमो, जीर्णो द्रुविटपी कुठः क्षितिरुहः कारस्करो विष्टरः, १. अभि० चि० च० १०३५ । ३. अभि० चि० च० ११२७-२८-२९ । २. अम० द्वि० शैलवर्गे - ६४७ । ४. अभि० चि० च० ११५९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142