Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान - २६
नन्द्यावर्त-करालिकौ तरुवसू पर्णी पुलाक्यंहिप:, सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः" इति हैर्मः । वृक्षे तु "आरोहकः स्कन्धी सीमिको हरितच्छदः उरुः जन्तुः वह्निभूश्च” इति हैमशेषः । लोध्र इति, यद्वा 'रोहः शिर' इतिवदभेदषष्ठ्यां लोध्रस्य द्रुमः लोध्रद्रुमः, तं लोध्रद्रुमं लोध्राख्यं द्रुममिव । ददर्श - अवलोकयामास ॥
९०
वाच्यपरिवर्तनं त्वेवम्-धनुर्धरेण तेन (राज्ञा) पाटलायां गवि तस्थिवान् केसरी धातुमय्याम् अधित्यकायां सानुमतः प्रफुल्ल : लोध्रदुम इव ददृशे ॥ धनुर्धरः स दिलीप: रक्तवर्णायां गवि स्थितं सिंहं गैरिकादिधातुरक्तवर्णायां पर्वतोपरितनभूमौ विकसितं लोध्राख्यं वृक्षमिव अवलोकयामास इत्यर्थः, इति सरलार्थः ॥२९॥
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥ ३० ॥
तत इति । तस्मादिति तच्छब्दात्पञ्चम्यर्थे 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित् तस्' (७|२८९||) इति 'श्रीसि० ' सूत्रेण तस्प्रत्यये 'पञ्चम्यास्तसिल्' [५|३|७||] इति 'पा०' सूत्रेण च तसिल्प्रत्यये ततः । ततः - सिंहदर्शनानन्तरम् । मृग्यन्ते व्याधैरिति ‘मृग्-अन्वेषणे याचने च' अदादिः चुरादिः आ० सक० सेट् अस्ति, 'मृग्-अन्वेषणे' दिवादिः पर० सक० सेट् अस्ति च । ततः कप्रत्यये मृगाः - हरिणाः । " मृगः कुरङ्गः सारङ्गो वातायुर्हरिणावपि " इति हैमैः । ‘मृगे तु अजिनयोनिः स्यात्' इति हैमशेष: । मृगो गजजातिभेदः । “भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः" इति हैम: । ' मृगो मृग इव हीनसत्त्वत्वा दिति टीका । मृगो नक्षत्रभेदे । "मृगशीर्षं मृगशिरो मार्गश्चान्द्रमसं मृगः" इति हैमः । षोडशजिनपतेः श्रीशान्तिनाथस्य भगवतो लाञ्छनं मृगः । " मृगः पशुमात्रे, हरिणे, गजभेदे, अश्विन्यवधिके पञ्चमे नक्षत्रे, मृग अदादिचुरादिः भावे अच्, अन्वेषणे याचने यज्ञभेदे च अच्, मृगमदे मकरराशौ च पुं०" । अत्र हरिणः पशुमात्रत्वात् । मृगाणामिन्द्रः मृगः इन्द्र इव वा मृगेन्द्रः । गमिष्यतीति गामी । मृगेन्द्रं गामी मृगेन्द्रगामी । यद्वा मृगेन्द्र इव गच्छतीति 'कर्तुर्णिन्' (५/१/१५३||) इति 'श्रीसि० ' १. अभि० चि० च० १११४ | ४. अभि० चि० हैमशेषे - १८६ । २. अभि० चि० हैमशेषे - १७३ - १७४ । ५. अभि० चि० च० १२१८ | ३. अभि० चि० च० १२९३ | ६. अभि० चि० द्वि० १०९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142