Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 90
________________ December - 2003 लोष्टि-कुन्थिभ्य उ:' ॥७१६॥ इति 'उणादिश्रीसि०' सूत्रेण उप्रत्यये “धनुः अस्त्रं, दानमानं च" । अत्र तूस्प्रत्ययान्तः । धनुर्धरतीति यौगिकत्वात् धनुर्धरः-धनुर्भृत् । 'पा०' मते धनुधातोः उस्प्रत्यये धनुस् पुं० ।"प्रियालवृक्षे; धनुर्धर त्रिलिङ्गः; चापे, मेषादितो नवमे राशौ च नपुं०" | धरतीति धृधातोरचप्रत्यये धरः धनुषो धरः धनुर्धरः । संज्ञायां धनुर्धारयतीति ‘धारेर्धर्च' (५।१।११३।।) इति 'श्रीसि०' सूत्रेण खप्रत्यये धारेर्धरादेशे च धनुर्धरः । 'पा०' मते च संज्ञायां धनुर्धारयतीति 'संज्ञायां भृ-तृ-वृ-जि-धारि-सहि-तपि दमः' [३।२।४६||] इति सूत्रेण णिजन्तधृधातोः खचि 'खचि इस्वः' [६।४।९४||] इति सूत्रेण च हूस्वे धनुर्धरः धानुष्के (तीरंदाज-निशानताकी-तीर फेंकनार) । "तूणी धनु द् धानुष्कः स्यात्" इति हैमः । धनुर्धरः-कोदण्डधारी धनुष्मानिति यावत् । “धन्वी धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः" इत्यमरः । स दिलीपो राजा । पाट्यतीति ण्यन्तात् 'पट-गतौ' धातोः 'मृदिकन्दि-कुण्डि-मण्डि-मङ्गि-पटि-पाटि-शकि-केवृ-देवृ-कमि-यमि-शलिकलि-पलि-गुध्वञ्चि - चञ्चि -चपि-वहि-दहि-कुहि-तृ-सृ-पिशि-तुसि-कुस्यानि -द्रमेरलः' ॥४६५॥ इति 'उणादिश्रीसि०' सूत्रेणाऽलप्रत्यये पाटलः वर्ण: "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" [इत्यमरः] इति तद्वत्याम् आपि पाटला। पाटलो वृक्षविशेषोऽपि । “पाटलिः पाटला" इति हैमः । 'ताम्रपुष्पत्वाद्वा' इति तद्वृत्तिः । 'पा०' मते तु पाटयतीति णिजन्तपट्धातोः कलच्प्रत्यये पाटलः पुं० । "श्वेतरक्तवर्णे, तद्वति त्रिलिङ्गः, पारुल इति ख्याते वृक्षे स्त्री०; तत्पुष्पे आशुधान्ये च नपुं०" आंसु (आशु) नाम्ना मिथिलायां प्रसिद्ध धान्यं भाद्रपदे मासि जातमशुद्धमिति कृत्वा देवपितृक्रियायां न व्यापार्यते। हेमन्त? जातं तच्छुद्धं व्यवहियते तुषसहितं तत् शालिसदृशम् । तस्यां पाटलायां-ईषद्रक्तवर्णायाम् । "श्वेतरक्तस्तु पाटलः" इत्यमरः । ___ गच्छन्त्याश्रयन्ति देवास्तामिति 'धुगमिभ्यां डोः' ॥८६७।। इति 'उणादिश्रीसि०' सूत्रेण 'गम्लं-गतौ' धातो: डिति ओप्रत्यये गौः-स्वर्गः स्त्री-पु० लिङ्गः । १. अभि० चि० तृ० ७७१ । २. अम० द्वि० क्षत्रियवर्गे - १६०५ । ४. अभि० चि० च० ११४४ । ३. अम० प्र० धीवर्गे- ३११ । ५. अम० प्र० धीवर्गे - ३०७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142