________________
December - 2003
लोष्टि-कुन्थिभ्य उ:' ॥७१६॥ इति 'उणादिश्रीसि०' सूत्रेण उप्रत्यये “धनुः अस्त्रं, दानमानं च" । अत्र तूस्प्रत्ययान्तः । धनुर्धरतीति यौगिकत्वात् धनुर्धरः-धनुर्भृत् । 'पा०' मते धनुधातोः उस्प्रत्यये धनुस् पुं० ।"प्रियालवृक्षे; धनुर्धर त्रिलिङ्गः; चापे, मेषादितो नवमे राशौ च नपुं०" | धरतीति धृधातोरचप्रत्यये धरः धनुषो धरः धनुर्धरः । संज्ञायां धनुर्धारयतीति ‘धारेर्धर्च' (५।१।११३।।) इति 'श्रीसि०' सूत्रेण खप्रत्यये धारेर्धरादेशे च धनुर्धरः । 'पा०' मते च संज्ञायां धनुर्धारयतीति 'संज्ञायां भृ-तृ-वृ-जि-धारि-सहि-तपि दमः' [३।२।४६||] इति सूत्रेण णिजन्तधृधातोः खचि 'खचि इस्वः' [६।४।९४||] इति सूत्रेण च हूस्वे धनुर्धरः धानुष्के (तीरंदाज-निशानताकी-तीर फेंकनार) । "तूणी धनु द् धानुष्कः स्यात्" इति हैमः । धनुर्धरः-कोदण्डधारी धनुष्मानिति यावत् । “धन्वी धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः" इत्यमरः ।
स दिलीपो राजा । पाट्यतीति ण्यन्तात् 'पट-गतौ' धातोः 'मृदिकन्दि-कुण्डि-मण्डि-मङ्गि-पटि-पाटि-शकि-केवृ-देवृ-कमि-यमि-शलिकलि-पलि-गुध्वञ्चि - चञ्चि -चपि-वहि-दहि-कुहि-तृ-सृ-पिशि-तुसि-कुस्यानि -द्रमेरलः' ॥४६५॥ इति 'उणादिश्रीसि०' सूत्रेणाऽलप्रत्यये पाटलः वर्ण: "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" [इत्यमरः] इति तद्वत्याम् आपि पाटला। पाटलो वृक्षविशेषोऽपि । “पाटलिः पाटला" इति हैमः । 'ताम्रपुष्पत्वाद्वा' इति तद्वृत्तिः । 'पा०' मते तु पाटयतीति णिजन्तपट्धातोः कलच्प्रत्यये पाटलः पुं० । "श्वेतरक्तवर्णे, तद्वति त्रिलिङ्गः, पारुल इति ख्याते वृक्षे स्त्री०; तत्पुष्पे आशुधान्ये च नपुं०" आंसु (आशु) नाम्ना मिथिलायां प्रसिद्ध धान्यं भाद्रपदे मासि जातमशुद्धमिति कृत्वा देवपितृक्रियायां न व्यापार्यते। हेमन्त? जातं तच्छुद्धं व्यवहियते तुषसहितं तत् शालिसदृशम् । तस्यां पाटलायां-ईषद्रक्तवर्णायाम् । "श्वेतरक्तस्तु पाटलः" इत्यमरः ।
___ गच्छन्त्याश्रयन्ति देवास्तामिति 'धुगमिभ्यां डोः' ॥८६७।। इति 'उणादिश्रीसि०' सूत्रेण 'गम्लं-गतौ' धातो: डिति ओप्रत्यये गौः-स्वर्गः स्त्री-पु० लिङ्गः । १. अभि० चि० तृ० ७७१ । २. अम० द्वि० क्षत्रियवर्गे - १६०५ । ४. अभि० चि० च० ११४४ । ३. अम० प्र० धीवर्गे- ३११ । ५. अम० प्र० धीवर्गे - ३०७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org