SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २६ 1 ; "स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाक: गौस्त्रिदिवमूर्ध्वलोकः सुरालय:" इति हैम: । “ फलोदयो मेरुपृष्ठं वासवावाससैरिकः । दिदिविः दीदिवि: द्युश्च दिवं च स्वर्गवाचकाः" इति हैमशेषः । स्वश्चाऽव्ययेषु । गच्छत्यस्मात्तम इति वा "गौ: - किरणः पुंस्त्री०" । "रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरचिरुपधृत्यभीशवः, प्रग्रहः शुचि - मरीचि दीप्तयो धाम - केतु घृणि रश्मिपृश्नयः, पाददीधिति-कर-ति- तो रुग्विरोक- किरण- त्विषः भाः प्रभावसु- गभस्तिभानवो भा-मयूख-महसी छविर्विभा" इति हैमैं: । गच्छतीति वा गौ:- वाणी । "वाग् ब्राह्मी भारती, गौर्गी - र्वाणी भाषा सरस्वती; श्रुतदेवी" इति हैमैं: । गच्छन्त्यस्यामिति वा गौः पृथ्वी, गोरूपधरत्वाद्वा गौ: । "भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा, धात्री धरित्री धरणी विश्वा विश्वम्भरा धरा; क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही, गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताऽचलाऽ ऽवनिः; सर्वंसहा रत्नगर्भा जगती मेदिनी रसा, काश्यपी पर्वताधारा स्थिरेला रत्न-बीजसू:' विपुला सागराच्चाग्रे स्युर्नमीमेखलाम्बराः" इति हैमैः । " अथ पृथिवी महाकान्ता क्षान्ता मेर्वद्रिकणिका गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा देहिनी केलिनी मौलिर्महास्थाली अम्बरस्थली" इति हैमशेषः । गच्छतीति वा गौ:वृषभ: । “अथ ऋषभो वृषभो वृषः; वाडवेय: सौरभेयो भद्रः शक्कर - शाक्वरौ, उक्षाऽनड्वान् ककुद्मान् गौर्बलीवर्दश्च शाङ्करः" इति हैम: । गच्छतीति वा गौः - सुरभिः । “गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी, उस्राऽघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुह्युषा; तम्पा निलिम्पिका तंवा" इति हैम: । सा सुरभिर्वर्णैरनेकधा शबला धवला इत्यादिः । “सा तु वर्णैरनेकधा" इति है : १ । गर्भवती सा प्रष्ठौही - २ । " प्रष्ठौही गर्भिणी" इति हैर्म: । वन्ध्या सा वशा-३ । “वन्ध्या वशा" इति हैम: । वृषोपगा सा वेहद् गर्भोपघातिनी-४ । १. अभि० चि० द्वि० ८७ । २. अभि० चि० हैमरोषे ३ । ३. अभि० चि० द्वि० ९९-१०० । ४. अभि० चि० द्वि० २४१ । ८४ ७. अभि० चि० च० १२५६-५७ ८. अभि० चि० च० १२६५-६६ / ९. अभि० चि० च० ५. अभि० चि० च० ९३५-३६-३७-३८ । १०. अभि० चि० च० ६. अभि० चि० हैमशेषे १५७-५८ । Jain Education International १२६६ | १२६६ | ११. अभि० चि० च० १२६६ । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy