SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७६ अनुसंधान-२६ भावे ल्युटि उत्पतनमिति, उत्पत्यते इति उत्पतनम्, ऊर्ध्वगमने उत्पत्तौ च । आभिमुख्येन उत्पतनं अभ्युत्पतनम् । अलक्षितं अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतन:-अदृष्टाक्रमणः ।। हिनस्तीति सिंहः । "हिंसेः सिम् च' ॥५८८॥ इति 'उणादिश्रीसि०' सूत्रेण 'हिंसुप्-हिंसायाम्' इत्यस्माद् धः प्रत्ययः अस्य च सिमादेशः सिंह:मृगराजः । यद्वा हिंस्धातोरचि पृषोदरादित्वात् सिंहः । “सिंहः कण्ठीरवो हरिः, हर्यक्षः, केसरीभारिः, पञ्चास्यो, नखरायुधः, महानादः, पञ्चशिखः, पारिन्द्रः, पत्यरी, मृगात्, श्वेतपिङ्गोऽपि" इति हैमः । सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेषः । "सिंहस्तु राशिभेदे मृगाधिपे श्रेष्ठे स्यादुत्तरस्थश्च" इत्यनेकार्थसङ्ग्रहः । सिंहः चतुर्विंशस्य जिनपतेलाञ्छनं भगवतो वर्द्धमानस्वामिनः । 'पा०' मते सिन्धातोः कप्रत्यये हिंस्धातोरचि वा पृषोदरादित्वात् "सिंहः पुंस्त्री०, 'सिंहो वर्णविपर्ययात्' । स्वनामख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः पञ्चमे राशौ च, पदान्तस्थः श्रेष्ठार्थे च" । अत्र पशुभेदः मृगराजः । "सिंहो मृगेन्द्रः पञ्चास्यः" इत्यमरः । प्रहसनं (प्रसहनं) पूर्वमति प्रसह्य हठे । "हठे प्रसह्य" इति हैमः । यथा-'प्रसह्य वित्तानि हरन्ति चौराः' । 'पा०' मते प्रपूर्वात् सधातोः ल्यपि प्रसह्य अव्ययं हठादित्यर्थे । "प्रसह्य तेजोभिरसङ्ख्यतां गतः" इति माघः । "प्रसह्य तु हठार्थकम्" इत्यमरः । किल्धातोः कप्रत्यये किल अव्ययं, "वार्तायाम्, अनुशयार्थे, निश्चये, सम्भाव्ये, प्रसिद्धप्रमाणद्योतके, सत्ये, हेतौ, अरुचौ, अलीके, तिरस्कारे च" । अत्र किलेत्यलोके ॥ वाच्यपरिवर्तनं त्वेवम् -तया हिंस्रैर्मनसाऽपि दुष्प्रधर्षया (भूयते) इति अद्रिशोभाप्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनेन सिंहेन प्रसह्य सा चकृषे ॥ किल महाप्रभावामिमां कामधेनुम् । सिंहादयो मनसाऽप्यभिभवितुं न प्रभवन्तीति निश्चित्य पर्वतशोभावलोकनदत्तदृष्टिना भूपेनाऽवलोकित एव सिंहो झटिति हठात् तां कामधेनोर(नुम)लीकमाययाऽऽक्रान्तवान्, इति सरलार्थः ॥२७।। १. अभि० चि० च० १२८३-८४-८५ । ४. अम० द्वि० सिंहादिवर्गे - ९८९ । २. अभि० चि० हैमशेषे १८४-८५ । ५. अभि० चि० ष० १५३९ । ३. अनेकार्थसङ्ग्रहे द्वि० ५९०-९१ । ६. अम० तृ० अव्ययवर्गे - २८६९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy