SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७५ December - 2003 क्तिन्प्रत्यये अद्रिः पुं० । “पर्वते, वृक्षे, सूर्ये, परिमाणभेदे च" । अत्र तु पर्वतोऽद्रिः । शोभनं भिदादित्वात् अङि शोभा। "आभा राढा विभूषा श्रीरभिख्याकान्ति-विभ्रमाः लक्ष्मीश्छाया च शोभायाम्" इति हैमः । शोभा अलङ्कारविशेषः । "प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः दीप्तिश्चायनजाः" इति हैमः । शोभा रूपाद्यैः पुंभोगोपबृंहितैः किञ्च्छिायान्तराश्रयणम् इति तद्वृत्तिः । 'पा०' मते शोभते इति शुभ्धातोः अप्रत्यये टापि च शोभा स्त्री० । “दीप्तौ, हरिद्रायां, गोरोचनायां च" । अत्र तु दीप्तिः कान्तिर्वा । अद्रेः-पर्वतस्य शोभा-कान्तिः अदिशोभा । प्रहि(ही)येते स्मेति प्रपूर्वात् 'हि-वधने गतौ च' धातोः धाधातोर्वा कर्मणि ते प्रहितं त्रिलिङ्गः । “क्षिप्ते, निरस्ते, प्रेरिते च, सूपे न०" । अत्र तु क्षिप्तः प्रेरितो वाऽर्थः । ईक्ष्यत आभ्यामिति ईक्षणे नेत्रे । 'चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकं लोचनं दर्शनं दृक् च'इति हैमः । “अक्ष्णि रूपग्रहो देवदीपः" इति हैमशेषः। यद्वा ईक्ष्यते इति ईक्षणम्-अवलोकनम् । "ईक्षणं तु निशामनम्, निभालनं, निशमनं, निध्यानमवलोकनम्, दर्शनं, द्योतनं निवर्णनं च" इति हैमः । 'पा०' मते ईक्ष्धातो वे ल्युटि अवलोकने, करणे ल्युटि नेत्रे च" । अत्र तु नेत्रार्थः । अद्रिशोभायां अद्रिशोभायै वा प्रहिते ईक्षणे येन स अद्रिशोभाप्रहितेक्षणः, तेनाऽद्रिशोभाप्रहितेक्षणेन-पर्वतशोभावलोकनदत्तनयनेन । नृशब्दात् पाधातोः अप्रत्यये, 'पा०' मते च कप्रत्यये नून् पातीति नृपो राजा । "राजा राट् पृथिवीशकमध्यलोकेश भूभृतः, महीक्षित् पार्थिवो मूर्धाभिषिक्तो भू-प्रजा-नृ-पः" इति हैम: । "नृपः चतुर्योजनपर्यन्तेष्वधिकारी नृपो भवेत्" इत्युक्ते, राजविशेषे, राजमात्रे च । अत्र राजमात्रः । तेन नृपेण-राज्ञा दिलीपेन । लक्ष्यते स्मेति लक्षितम् । 'लक्ष्-दर्शने' धातोः कर्मणि क्ते लक्षितं त्रिलिङ्गः । "लक्षणया बोधितेऽर्थे, ज्ञाते, अनुमिते च । कर्तरि ते लक्षणाश्रये, लक्षकशब्दे च" । अत्र तु ज्ञातार्थः । न लक्षितं अलक्षितं अज्ञातम् । न भातीति भाधातोः किप्रत्यये अभि अव्ययं "कञ्चित्प्रकारं प्राप्तस्य द्योतने, आभिमुख्ये, अभिलाषे, वीप्सायाम्, लक्षणे, समन्तादर्थे च" । अत्राऽऽभिमुख्यमर्थः । उत्पूर्वात् पत्धातोः १. अभि० चि० ष० १५१२ । ४. अभि० चि० हैमशेषे - १२१ । २. अभि० चि० तृ० ५०९ । ५. अभि० चि० तृ० ५७६-७७ । ३. अभि० चि० तृ० ५७५ । ६. अभि० चि० तृ० ६८९-९० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy