Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 36
________________ २९ परिधानान्तधिभेदतादर्थ्ये" इर्त्यमरः । सञ्चरणं सञ्चारः । पूयन्ते स्मेति पूतानि - शुद्धानि । सञ्चारेण पूतानि सञ्चारपूतानि । कृत्वा - विधाय । द्यति तम: दोधातोर्नकि दिनम् । दीव्यति रविरत्र द्यति तम इति वा " दिननग्नं" [फेन चिह्न - ब्रध्न- धेन स्तेन - च्यौक्नादयः] ॥२६८ || औणादि० सूत्रेण नान्ते निपातने दिनं पुंक्लीबलिङ्गः । " तत्राहर्दिवसो दिनम्, दिवं द्युर्वासरो घस्रः" इति हैमः । दिनस्य अन्तो दिनान्त:, तस्मिन् दिनान्ते सायंकाले । निलीयतेऽत्रेति निपूर्वात् 'ली' धातो: अचि निलयः “गृहे, आवासस्थाने च" । तस्मै निलयाय-अस्तमयाय । धेनुपक्षे आलयादे (यै) व गन्तुं प्रचक्रमे उपक्रान्तवती । 'प्रोपादारम्भे (३|३|५१||) इति 'श्रीसि० हे० श०' सूत्रेण 'प्रोपाभ्यां समर्थाभ्याम्' [१|३|४२ || ] इति पाणिनीयसूत्रेण चाऽऽत्मनेपदम् ॥ December - 2003 वाच्यपरिवर्तनं त्वेवम् – पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च दिगन्तराणि सञ्चारपूतानि कृत्वा दिनान्ते निलयाय गन्तुं प्रचक्रमे ॥ अभिनवकिसलयरागरक्ता सूर्यकान्तिर्वशिष्ठनन्दिनी च सर्वं दिनं वने निखिलानि दिगन्त भागान् निजसञ्चरणेन पवित्रीकुर्वाणा सन्ध्यासमयेऽस्तमयाभिमुखी निजस्थानाभिमुखी च जाता, इति सरलार्थः ॥ १५ ॥ Jain Education International तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥१६॥ तामिति । मध्ये भवः मध्यमः । लोक्यतेऽसाविति लोकृधातोः कर्मणि घञि लोकः । मध्यमश्चाऽसौ लोकश्च मध्यमलोकः । मध्यमलोकं पालयतीति मध्यमलोकपालः- मर्त्यलोकाधिपः । देवन्ते इति देवाः, देवा एव देवधातोः स्वार्थे तलि देवता: । "क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते" इति भाष्योक्तेः स्त्रीत्वम् । 'देवता इन्द्रादौ सुरे' । पान्तीति पाधातोः तृचि पितरः । अतन्ति सततं गच्छन्ति न तिष्ठन्ति एकत्रेति अत्धातोः इथिनि अतिथयः । " अतिथिः अध्वयोगेन, आगन्तुके, गृहागते, विषये च' । तस्य इन्द्रियेषु संसर्गमात्रकाल एव चेतसि स्थितिर्नोत्तरकालमिति १. अम० तृ० नानार्थवर्गे २. अभि० चि० द्वि० - २७०९ । १३८ । - For Private & Personal Use Only f www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142