Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 44
________________ December - 2003 ३७ मनि "धर्मः पुनपुंलि० शास्त्रविहितकर्मानुष्ठानजन्ये, भाविफलसाधनभूते, शुभादृष्टे । 'यतोऽभ्युदंयनिःश्रेयससिद्धिः स धर्मः' । 'श्रुतिस्मृतिभ्यामुदितं यत् स धर्म' इत्युक्ते, श्रौते, स्मार्ते कर्मणि, 'विहितक्रियया साध्यो धर्मः पुंसां गुणो मतः' - इत्युक्ते, कर्मजन्ये, अदृष्टे, आत्मनि, 'देहधारणात्' जीवे, आचारे, वस्त्रगुणरूपे, स्वभावे, उपमायां, यागादौ, अहिंसायां, न्याये, उपनिषदि, यमे, सोमाध्यायिनि, सत्सङ्गे, धनुषि, ज्योतिषोक्ते, लग्नात् नवमस्थाने च; दानादौ नपुं०" । इह तु शुभादृष्टं धर्मो यमोपमापुण्यस्वभावाचारधन्वसुसत्सङ्गेर्हत्यहिंसादौ न्यायोपनिषदोरपि। “धर्मं दानादिके" इत्यनेकार्थसङ्ग्रहः । पातीति पाधातो: 'पातेर्वा' ॥६५९॥ इति 'उ० श्रीसि०' सूत्रेण ङीप्रत्यये नान्तागमे च पत्नी । “अथ सर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैम: । अथवा 'पाणिनीय'मते [पत्यु! यज्ञसंयोगे ४।१।३३॥ इति] पतिशब्दात् यज्ञसम्बन्धे ङीपि नुकि च पत्नी, पतिकृतयज्ञवत्यां विधिनोढायां योषिति । 'सिद्धहेममते धर्माय पत्नी, 'पाणि०'मते च धर्मस्य पत्नी धर्मपत्नी । पार्थिवस्य धर्मपत्नी पार्थिवधर्मपत्नी, तया पार्थिवधर्मपत्न्या । प्रत्युद्गम्यते स्मेति प्रत्युद्गता । सा । धयति एनाम् धेनुः । तयोर्दम्पत्योरन्तरे तदन्तरे-मध्ये । अन्तरे इति सप्तम्यन्तप्रतिरूपकमव्ययम् । "मध्येन्तरन्तरेणान्तरेऽन्तरा" इति हैम: । अथवा 'पा०'मते अन्तरेति 'इण्' धातोः विचि अन्तरे(रं) यद्वा अनितीत्यन्तरं पुंक्लीबलिङ्गः । 'अनि-काभ्यां तरः" ॥४३७।। इति 'उ० श्रीसि०' सूत्रेण अन्धातोः 'तर'प्रत्यये अन्तरम् । “मध्यमन्तरे" इति हैम: । 'पाणि०'मते तु अन्तं राति-ददातीति राधातोः कप्रत्यये "अन्तरम् अवकाशे, अवधौ परिधानांशुके, अन्तर्धाने, भेदे, परस्परवैलक्षण्ये, विशेषे, तदर्थे, छिद्रे, आत्मीये, विनार्थे, बहिरर्थे, व्यवधाने, मध्ये, सदृशे च ।" तयोरन्तरं तदन्तरं, तस्मिन् तदन्तरे । दीव्यति रविरत्र द्यति तम इति वा दिनम् । क्षिप्यते इति 'भिदाद्यङ् (दयः)' (५।३।१०८॥) इति 'श्रीसि०' सूत्रेण क्षिप्धातोरङि क्षपा । "निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा त्रियामा यामिनी भौती तमी १. अनेकार्थसङ्ग्रहे द्वि० ३२० । २. अभि० चि० तृ० ५१२-१३ । ३. अभि० चि० ष० १५३८ । ४. अभि० चि० ष० १४६० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142