Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४४
अनुसंधान-२६ तौ-दम्पती । ननन्दतुः - आनन्दं प्रापतुः । पूजास्वीकारस्य आनन्दहेतुत्वमाह- "हि वर्धने गतौ च' स्वादिः पर० सक० अनिट् । हिनोति अहैषीत् । हाधातोः हिधातोर्वा अप्रत्यये हि, अव्ययं, "हेतौ, अवधारणे, विशेषे, प्रश्ने, संभ्रमे, हेतूपदेशे, शोके, असूयायां, पादपूरणे, च" । अत्र तु हेतौ हेतूपदेशार्थे वा हि । भजनं भक्तिः । “अथ सेवा भक्तिः परिचर्या प्रसादना शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः उपचारः" इति हैमः । “पर्येषणा परीष्टिश्च" (श्राद्धे द्विजशुश्रूषा) इत्यमरः । पूज्येषु अनुरागो भक्तिः । 'पाणि०' मते भज्धातोः क्तिनि "भक्तिः स्त्रीलिङ्गः, "सेवायां, आराधनायां, तदेकाग्रचित्तवृत्तिभेदे, विभागे, गौण्यां वृत्तौ, उपचारे, अवयवे, भङ्ग्यां, श्रद्धायां, स्वनायां च" । "भवति विरलभक्तिः" इत्यग्रे रघौ, भक्तिशब्दसम्बन्धेन भक्तिरेव योगः भक्तियोगः । तदेकाग्रतारूपचित्तवृत्तिरूपे योगे एवमेव भक्तिरेव रसः भक्तिरस आस्वाद्यः भक्तिरूपे, ध्येयानुभवात्मके, रतिभेदे ।
अत्र भक्तिशब्दप्रस्तावात् प्रासङ्गिकं जिनशासनप्रतिपादितं भक्तिस्वरूपं कथ्यते- तत्राऽर्हद्विषया भक्तिः कञभिप्रायभेदेन सात्त्विकी राजसी तामसीति भेदात् त्रिविधोच्यते । तत्स्वरूपं चेदम्
सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादर्हतो भवेत् ॥१॥ अर्हत्सम्यग्गुणश्रेणी-परिज्ञानेकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥२॥ अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् ॥३॥ भक्तिः शक्त्यनुसारेण निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद् भक्तिर्लोकद्वयफलावहा ॥४॥
(त्रिभिर्विशेषकम्) १. अभि० चि० तृ० ४९६-९७ । २. अम० द्वि० ब्रह्मवर्गे - १४१६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142