SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४४ अनुसंधान-२६ तौ-दम्पती । ननन्दतुः - आनन्दं प्रापतुः । पूजास्वीकारस्य आनन्दहेतुत्वमाह- "हि वर्धने गतौ च' स्वादिः पर० सक० अनिट् । हिनोति अहैषीत् । हाधातोः हिधातोर्वा अप्रत्यये हि, अव्ययं, "हेतौ, अवधारणे, विशेषे, प्रश्ने, संभ्रमे, हेतूपदेशे, शोके, असूयायां, पादपूरणे, च" । अत्र तु हेतौ हेतूपदेशार्थे वा हि । भजनं भक्तिः । “अथ सेवा भक्तिः परिचर्या प्रसादना शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः उपचारः" इति हैमः । “पर्येषणा परीष्टिश्च" (श्राद्धे द्विजशुश्रूषा) इत्यमरः । पूज्येषु अनुरागो भक्तिः । 'पाणि०' मते भज्धातोः क्तिनि "भक्तिः स्त्रीलिङ्गः, "सेवायां, आराधनायां, तदेकाग्रचित्तवृत्तिभेदे, विभागे, गौण्यां वृत्तौ, उपचारे, अवयवे, भङ्ग्यां, श्रद्धायां, स्वनायां च" । "भवति विरलभक्तिः" इत्यग्रे रघौ, भक्तिशब्दसम्बन्धेन भक्तिरेव योगः भक्तियोगः । तदेकाग्रतारूपचित्तवृत्तिरूपे योगे एवमेव भक्तिरेव रसः भक्तिरस आस्वाद्यः भक्तिरूपे, ध्येयानुभवात्मके, रतिभेदे । अत्र भक्तिशब्दप्रस्तावात् प्रासङ्गिकं जिनशासनप्रतिपादितं भक्तिस्वरूपं कथ्यते- तत्राऽर्हद्विषया भक्तिः कञभिप्रायभेदेन सात्त्विकी राजसी तामसीति भेदात् त्रिविधोच्यते । तत्स्वरूपं चेदम् सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादर्हतो भवेत् ॥१॥ अर्हत्सम्यग्गुणश्रेणी-परिज्ञानेकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥२॥ अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् ॥३॥ भक्तिः शक्त्यनुसारेण निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद् भक्तिर्लोकद्वयफलावहा ॥४॥ (त्रिभिर्विशेषकम्) १. अभि० चि० तृ० ४९६-९७ । २. अम० द्वि० ब्रह्मवर्गे - १४१६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy