________________
४३
(७|१|१९२ || ) इति 'श्रीसि० 'सूत्रेण उत्सुशब्दात् अस्येत्युन्मनस्यभिधेये कप्रत्यये उत्सुकः । “उत्कस्तूत्सुकः उन्मनाः उत्कण्ठितः" इति है : । 'पाणिनीय' मते तु उत्सुकस्त्रिलिङ्गः । उत्पूर्वात् सूधातो: क्विप्कनि ह्रस्वे उत्सुकः । “इष्टार्थसंपादनायोद्युक्ते, अभीष्टो गमिष्यतीति उत्कण्ठान्विते च ।" वत्से उत्सुका वत्सोत्सुका । अपि अव्ययं न पीयति गच्छतीति 'पि गतौ' धातोः क्विप् न तुक् । “अशक्यकरणायोद्यमरूपायां, शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायां वा, संभावनायां, स्नेहे, निन्दायां प्रश्ने, समुच्चये, अल्पपदार्थे, कामचारानुज्ञायाम्, अवधारणे, पुनरर्थे च" । अत्र तु पुनरर्थे । स्ववत्सदर्शनोत्कण्ठिताऽपि । स्तिम्यति स्मेति स्तिमिता । “तिमिते स्तिमितक्लिन्नसार्द्रार्द्रान्नां समुत्तवत्" इति हैमः । 'पाणि०' मते तु "स्तिमित' नपुं०लिङ्गाः । स्तिम्धातोः भावे क्तः । " आर्द्रतायाम्, अचाञ्चल्ये च" । कर्तरि क्तः, "अचञ्चले आर्दे च त्रिलिङ्गः" अत्र त्वचञ्चलार्थः । स्तिमिता निश्चला सती ।
:
1
December
-
2003
'सपर्- पूजायाम्' इति कण्ड्वादिधातो: 'धातोः कण्ड्वादेर्यक्' (३|४|८|) इति 'श्रीसि० ' सूत्रेण यकि 'शंसिप्रत्ययात्' (५/३/१०५ || ) इति 'श्रीसि० ' सूत्रेण ‘अ’प्रत्यये आपि सपर्या । "पूजार्हणा सपर्याऽर्चा" इति है : । " पूजा त्वपचितिः” इति हैमशेषैः । " पूजा नमस्याऽपचितिः सपर्याऽर्चार्हणाः समाः" इत्यमरः । 'पा०' मते तु सपरधातोः यकि अप्रत्यये टापि च सपर्या पूजायाम् ।" सोऽहं सपर्याविधिभाजनेने "ति अग्रे रघौ । ताम् सपर्याम्-पूजाम् । प्रत्यग्रहीत्स्वीचकार । इणुधातोः क्तिचि । इतीति अव्ययं, "हेतौ प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, प्रकर्षे, उपक्रमे च ।" अत्र तु हेतुरर्थः । इति - हेतोः । वत्सावलोकनौत्सुक्येऽपि निश्चलभावेन पूजास्वीकारात् तो: इति भावः ।
१. अभि० चि० तृ० ४३६ ।
२. अभि० चि० ष० १४९२ ।
३. अभि० चि० तृ० ४४७ । ४. अभि० चि० हैमशेषे - १०५ ।
५. अम० द्वि० ब्रह्मवर्गे - १४२१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org