Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
December - 2003
२७
चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डलकूप इव ॥४॥ आचारपूतत्वात् स राजा जगत्पावनस्याऽपि सेव्य आसीदिति भावः ।।
वाच्यपरिवर्तनं त्वेवम्- गिरिनिर्झराणां तुषारैः पृक्तेनाऽनोकहाकम्पितपुष्पगन्धिना पवनेनाऽनातपत्र आतपक्लान्त आचारपूतः स सिषेवे ॥
पर्वतसरित्प्रवाहाणां शीतलान् वारिकणान् वहन् ईषत्कम्पितानां तरुपुष्पाणां गन्धं वहन्मन्दः शीतलः सुगन्धः जगत्पावयन्गन्धवहः तस्मिन् वने छत्ररहितं आतपतापितं सदाचारपवित्रं तं दिलीपं सेवितवान्, इति सरलार्थः ॥१३॥
शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने ॥१४॥
शशामेति । गोपायतीति गोप्ता, तस्मिन् गोप्तरि-रक्षयितरि । तस्मिन् दिलीपे राज्ञि । वनम्-अरण्यम् । गाहतेऽसौ गाहमानः, तस्मिन् गाहमाने प्रविशति सति । वृष्ट्या विनाऽपि-वर्षाणामभावेऽपि । दुनोतीति दवः । दवस्य अग्निः दवाग्नि:-वनाग्निः । "दवदावौ वनानले" इति हैम: । “दवदावौ वनारण्यवह्नी" इत्यमरः । अन्यत्र तु दवनं दव इति भावे 'दु'धातोरपि भवति उपतापे । शशाम शान्तो बभूव ।
फलानि च पुष्पाणि च फलपुष्पाणि, फलपुष्पाणां वृद्धिः फलपुष्पवृद्धिः - सस्यकुसुमवृद्धिः । “वृक्षादीनां फलं सस्यम्" इत्यमरः । विशिष्यत इति विशेषा; 'भावाऽकों' (५।३।१८॥) इति 'श्रीसिव्हेश०' सूत्रेण, पाणिनीयमते तु बाहुलकात् कर्मणि 'घञ्'-अतिशयिता । आसीत्-अभूत् । सत्त्वेषु जन्तुषु मध्ये 'सप्तमी चाऽविभागे निर्धारणे' (२।३।१०९॥) इति 'श्रीसि०हे०श०' सूत्रेण, 'यतश्च निर्धारणम्' [२।३।४१॥] इति पाणिनीयसूत्रेण च सप्तमी । "सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । अधिक:-प्रबलः (सबलः) सिंहादिरित्यर्थः ।
१. अभि० चि० अनेकार्यसङ्ग्रहे द्वि० ५१२ । २. अम० तृ० नानार्थवर्गे - २७४७ । ३. अम० द्वि० वनौषधिवर्गे - ६७८ । ४. अम० तृ० नानार्थवर्गे - २७६१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142