Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 33
________________ अनुसंधान-२६ " श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ॥ समीरमारुतमरुज्जगत्प्राणसमीरणाः । नभस्वद्वातपवनपवमानप्रभञ्जनाः" || इत्यमरः । आतपात् त्रायते इत्यातपत्रम् । न विद्यते आतपत्रं यस्य स अनातपत्रः, तम् अनातपत्रम् - व्रतार्थं परिहतछत्रम् । अत एव क्लाम्यते स्मेति क्लान्तः । आतपेन क्लान्तः आतपक्लान्तः, तम् आतपक्लान्तम् । पूयते स्मेति पूतः । आचारेण पूतः आचारपूतः, तम् आचारपूतम्-आचारशुद्धम् । तं-नृपम् । सिषेवे-सेवितवान् । अनेन 'आचारः प्रथमो धर्मः' इति ज्ञापितम् । यद्यपि ज्ञानपूर्णः स्यात्तथाऽपि सामान्यदृष्ट्या आचारभ्रष्टः (न सेवनार्हः स्यात् ) । तथा चाऽऽह - शीलविहीनस्तु तथा श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥१॥ तथा चाऽऽहुः पूज्या: गुणसुठ्ठियस्स घयमहुसित्तुव्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहीणो जह पईवो ॥१॥ तथा चाऽन्येनाऽप्युक्तम् क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ॥१॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु न । तथा पुष्टिं जनयति यथा हि गुणवन्मुखात् पतितम् ॥२॥ शीतेऽप्ययनलब्धो न सेव्यतेऽग्निर्यथा स्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥३॥ १. अम० प्र० स्वर्गवर्गे - १२२-२३-२४-२५ । गुणसुस्थितस्य घृतमधुसिक्त इव पावको भाति । गुणहीनस्य न शोभते स स्नेहविहीनो यथा प्रदीपः ॥ (छायार्थः)॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142