Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ अनुसंधान- २६ नेत्रमीक्षणं चक्षुरक्षिणी " इर्त्यमरः । विस्तरणं विस्तारः । प्रकामं विस्तार: प्रकामविस्तारः । प्रकामविस्तारस्याऽत्यन्तविशालतायाः फलं - प्रयोजनं प्रकामविस्तारफलम् । आपुः - लेभिरे ॥ २४ वाच्यपरिवर्तनम् धनुर्भृतोऽप्यस्य दयार्द्रभावं (हरिणीनां) विशङ्करन्त:करणैः आख्यातं (अस्य) वपुर्विलोकयन्तीभिर्हरिणीभिरक्ष्णां प्रकामविस्तारफलमापे ॥ 3 धनुर्धारिणमपि तमायान्तं विलोक्य हरिणीनां भयक्षान्तिसम्भावनायामपि भयाभावप्रयुक्तनिर्मलैरन्तःकरणैः राज्ञो दिलीपस्याऽन्तरात्मा हिंसालेशरहितसर्वजीवविषयदयाद्रवीभूत इति ज्ञातम् । तेन च नृपस्य दयार्द्रभावं परममनोहरं वपुः निर्भयात् बहुकालं निर्भरं ददृशुः तेन च स्वनेत्राणामत्यन्तविशालतायाः फलमापुः । “विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुञ्चे"ति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धा ददृशुः इति सरलार्थः ॥११॥ स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥१२॥ स कीचकैरिति । सः दिलीपः । मारुतेन पूर्णानि रन्ध्राणि येषां ते मारुतपूर्णरन्ध्राः, तै: मारुतपूर्णरन्धैः- वायुपूरितछिद्रैः । "छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः" इत्यमरः । अत एव कूजन्तीति कूजन्तः, (तैः) कूजद्भि:स्वनद्भिः । कीचकैः वेणुविशेषैः । " वेणवः कीचकास्ते स्युर्ये स्वनन्त्य - निलोद्धताः" इत्यमरवचनात् कीचकशब्देनैव मारुतपूर्णरन्ध्रत्वस्य सिद्धौ मारुतपूर्णरन्धैरिति विशेषणं किमर्थमिति चेत्, विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् इति ज्ञापनार्थम् । वंशः शुषिरवाद्यविशेष: । "वंशादिकं तु शुषिरम्" इत्यमरः । वंशस्य कृत्यं वंशकृत्यम् । आपाद्यते स्मेति आपादितम् । आपादितं वंशकृत्यं यस्मिन् कर्मणि यथा स्यात्तथाऽऽपादितवंशकृत्यम् - संपादितशुषिरकार्यम् । कुञ्जेषु लतागृहेषु । " निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः । वनस्य १. अम० द्वि० मनुष्यवर्गे २. अम० प्र० पातालभोगिवर्गे - ४४१ । ३. अम० द्वि० वनौषधिवर्गे अम० द्वि० शैलवर्गे ४. अम० प्र० नाट्यवर्गे ३७० । ५. Jain Education International - १२५९ । ९७१ । ६४९ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142