Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
December - 2003
२५
देवता वनदेवताः, ताभिः वनदेवताभिः-विपिनदेवताभिः । “अटव्यरण्यं विपी(पि)नं गहनं काननं वनम् "इत्यमरः । उच्चैः उच्चस्वरेण । उद्गीयते इत्युद्गीयमानम् । स्वं-निजम् । यश:- “एकदिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः" । "यशः कीर्तिः समज्ञा च" इत्यमरवचनात्तु कीर्तिम् । शुश्रावश्रुतवान् ॥
वाच्यपरिवर्तनं त्वेवम्- तेन मारुतपूर्णरन्धैः कूजद्भिः कीचकैरापादितवंशकृत्यं कुञ्जेषु वनदेवताभिरुच्चैरुद्गीयमानं स्वं यशः शुश्रुवे ॥
तस्मिन् वने एकान्तशीतलेषु वल्लरीकुलेषु सुखासीना वनदेवताः मङ्गलगायिका इव मनोहरेण गान्धारस्वरेण तस्य नृपतेराश्चर्यकर्माणि गायन्त्यः तस्य कर्णसुखं चक्रिरे । वनजातैः कीचकैश्च (सच्छिद्रवंशैश्च) पवनपूर्णरन्ध्रतया मधुरं ध्वनिभिस्तासां गानस्याऽनुरञ्जकं वंशीवाद्यकार्य सम्पादितम्, इति सरलार्थः
॥१२॥
पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी। तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥१३॥
पृक्त इति । गिरिषु निर्झराः गिरिनिर्झराः, तेषां गिरिनिर्झराणाम्पर्वतनिःसृतवारिप्रवाहाणाम् । “वारिप्रवाहो निर्झरो झरः" इत्यमरः । तुषारैःसीकरैः । ‘दन्त्यः सीकरशब्दः पुंसि, तालव्यः शीकरशब्दस्तु नपुंसके' इति विशेषः । “तुषारो हिमदेशयोः शीकरे हिमभेदे च" इति पूज्यश्रीहेमचन्द्रसूरिकृतोऽनेकॉर्थसंग्रहः । “तुषारौ हिमसीकरौ" शाश्वतः "तुषारः हिमे कपूरे शीते च" । पृच्यते स्मेति पृक्तः-सम्पृक्तः ।
अनसः - शकटस्य अक: - गतिः अनोकः, अनोकं जन्तीति अनोकहाः, कम्प्यन्ते स्मेति कम्पितानि, आ-ईषत् कम्पितानि आकम्पितानि, आकम्पितानि च तानि पुष्पाणि च आकम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाणां गन्धः अनोकहाकम्पितपुष्पगन्धः, अनोकहाकम्पितपुष्पगन्धा(न्धो)ऽस्याऽस्तीति अनोकहाकम्पितपुष्पगन्धी-ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पुनातीति पवन:वातः । १. अम० द्वि० वनौषधिवर्गे - ६५० । २. अम० प्र० शब्दादिवर्गे - ३३३ । ३. अम० द्वि० शैलवर्गे- ६४३ । ४. अनेकार्थसंग्रहे तृ० ५५४-५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142