SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ December - 2003 २५ देवता वनदेवताः, ताभिः वनदेवताभिः-विपिनदेवताभिः । “अटव्यरण्यं विपी(पि)नं गहनं काननं वनम् "इत्यमरः । उच्चैः उच्चस्वरेण । उद्गीयते इत्युद्गीयमानम् । स्वं-निजम् । यश:- “एकदिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः" । "यशः कीर्तिः समज्ञा च" इत्यमरवचनात्तु कीर्तिम् । शुश्रावश्रुतवान् ॥ वाच्यपरिवर्तनं त्वेवम्- तेन मारुतपूर्णरन्धैः कूजद्भिः कीचकैरापादितवंशकृत्यं कुञ्जेषु वनदेवताभिरुच्चैरुद्गीयमानं स्वं यशः शुश्रुवे ॥ तस्मिन् वने एकान्तशीतलेषु वल्लरीकुलेषु सुखासीना वनदेवताः मङ्गलगायिका इव मनोहरेण गान्धारस्वरेण तस्य नृपतेराश्चर्यकर्माणि गायन्त्यः तस्य कर्णसुखं चक्रिरे । वनजातैः कीचकैश्च (सच्छिद्रवंशैश्च) पवनपूर्णरन्ध्रतया मधुरं ध्वनिभिस्तासां गानस्याऽनुरञ्जकं वंशीवाद्यकार्य सम्पादितम्, इति सरलार्थः ॥१२॥ पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी। तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥१३॥ पृक्त इति । गिरिषु निर्झराः गिरिनिर्झराः, तेषां गिरिनिर्झराणाम्पर्वतनिःसृतवारिप्रवाहाणाम् । “वारिप्रवाहो निर्झरो झरः" इत्यमरः । तुषारैःसीकरैः । ‘दन्त्यः सीकरशब्दः पुंसि, तालव्यः शीकरशब्दस्तु नपुंसके' इति विशेषः । “तुषारो हिमदेशयोः शीकरे हिमभेदे च" इति पूज्यश्रीहेमचन्द्रसूरिकृतोऽनेकॉर्थसंग्रहः । “तुषारौ हिमसीकरौ" शाश्वतः "तुषारः हिमे कपूरे शीते च" । पृच्यते स्मेति पृक्तः-सम्पृक्तः । अनसः - शकटस्य अक: - गतिः अनोकः, अनोकं जन्तीति अनोकहाः, कम्प्यन्ते स्मेति कम्पितानि, आ-ईषत् कम्पितानि आकम्पितानि, आकम्पितानि च तानि पुष्पाणि च आकम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाणां गन्धः अनोकहाकम्पितपुष्पगन्धः, अनोकहाकम्पितपुष्पगन्धा(न्धो)ऽस्याऽस्तीति अनोकहाकम्पितपुष्पगन्धी-ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पुनातीति पवन:वातः । १. अम० द्वि० वनौषधिवर्गे - ६५० । २. अम० प्र० शब्दादिवर्गे - ३३३ । ३. अम० द्वि० शैलवर्गे- ६४३ । ४. अनेकार्थसंग्रहे तृ० ५५४-५५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy