________________
अनुसंधान- २६
नेत्रमीक्षणं चक्षुरक्षिणी " इर्त्यमरः । विस्तरणं विस्तारः । प्रकामं विस्तार: प्रकामविस्तारः । प्रकामविस्तारस्याऽत्यन्तविशालतायाः फलं - प्रयोजनं प्रकामविस्तारफलम् । आपुः - लेभिरे ॥
२४
वाच्यपरिवर्तनम् धनुर्भृतोऽप्यस्य दयार्द्रभावं (हरिणीनां) विशङ्करन्त:करणैः आख्यातं (अस्य) वपुर्विलोकयन्तीभिर्हरिणीभिरक्ष्णां प्रकामविस्तारफलमापे ॥
3
धनुर्धारिणमपि तमायान्तं विलोक्य हरिणीनां भयक्षान्तिसम्भावनायामपि भयाभावप्रयुक्तनिर्मलैरन्तःकरणैः राज्ञो दिलीपस्याऽन्तरात्मा हिंसालेशरहितसर्वजीवविषयदयाद्रवीभूत इति ज्ञातम् । तेन च नृपस्य दयार्द्रभावं परममनोहरं वपुः निर्भयात् बहुकालं निर्भरं ददृशुः तेन च स्वनेत्राणामत्यन्तविशालतायाः फलमापुः । “विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुञ्चे"ति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धा ददृशुः इति सरलार्थः ॥११॥ स कीचकैर्मारुतपूर्णरन्धैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥१२॥
स कीचकैरिति । सः दिलीपः । मारुतेन पूर्णानि रन्ध्राणि येषां ते मारुतपूर्णरन्ध्राः, तै: मारुतपूर्णरन्धैः- वायुपूरितछिद्रैः । "छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः" इत्यमरः । अत एव कूजन्तीति कूजन्तः, (तैः) कूजद्भि:स्वनद्भिः । कीचकैः वेणुविशेषैः । " वेणवः कीचकास्ते स्युर्ये स्वनन्त्य - निलोद्धताः" इत्यमरवचनात् कीचकशब्देनैव मारुतपूर्णरन्ध्रत्वस्य सिद्धौ मारुतपूर्णरन्धैरिति विशेषणं किमर्थमिति चेत्, विशिष्टवाचकानां पदानां सति विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् इति ज्ञापनार्थम् ।
वंशः शुषिरवाद्यविशेष: । "वंशादिकं तु शुषिरम्" इत्यमरः । वंशस्य कृत्यं वंशकृत्यम् । आपाद्यते स्मेति आपादितम् । आपादितं वंशकृत्यं यस्मिन् कर्मणि यथा स्यात्तथाऽऽपादितवंशकृत्यम् - संपादितशुषिरकार्यम् । कुञ्जेषु लतागृहेषु । " निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः । वनस्य १. अम० द्वि० मनुष्यवर्गे २. अम० प्र० पातालभोगिवर्गे - ४४१ । ३. अम० द्वि० वनौषधिवर्गे अम० द्वि० शैलवर्गे
४. अम० प्र० नाट्यवर्गे
३७० ।
५.
Jain Education International
-
१२५९ ।
९७१ ।
६४९ ।
For Private & Personal Use Only
www.jainelibrary.org