________________
December - 2003
२३
षष्ठीसमासे आचारस्य लाजा: आचारलाजाः, तैः आचारार्थैः लाजैः आचारलाजैः । इव । अवाकिरन् । तस्योपरि निक्षिप्तवत्य ववृषुः इत्यर्थः । सखा हि सखायमागतमुपचरति, इति भावः ।
अत्र हि पूर्वश्लोके पाशभृता समस्येति कथनेन पाशभृतो वरुणस्य जलाधिष्ठातृत्वेन पाशभृत्प्रयुक्तजलधरागमे द्रुमाणां हर्षातिरेकः संजायते । तथा च हर्षातिरेके द्रुमाणां पक्षिणामप्युत्कटमदत्वं जायते, ततश्च ते स्वस्वध्वनिभिर्मधुरारावा: तन्वते इत्युत्प्रेक्षितम् । पार्श्वद्रुमास्तस्याऽऽलोकशब्दमुदीरयामासुरिति । जलधरागमेन लतादीनां हर्षातिरेकज्ञापकमुद्गमत्वं जायते, कुसुमोढ़ेदादिस्तु जलधरानन्तरमातपनिपातेनेति सम्भाव्यते । इत्यस्मिन् श्लोके मरुत्सखाभमिति राज्ञो विशेषणेन, यथाऽऽतपनिपातः कुसुमोढ़ेदादिहेतुः, तथाऽत्र दावे राज्ञ आगमनमस्माकं कुसुमितत्वे हेत्विवेति ताः प्रभूतहर्षातिरेकवत्यः कुसुमरूपैराचारलाजैर्वर्धापितवत्य इवेत्युत्प्रेक्षा ध्वनितेत्याभाति ॥
वाच्यपरिवर्तनं त्वेवम्- मरुत्प्रयुक्ताभिः बाललताभिश्च मरुत्सखाभोऽर्थ्य आरादभिवर्तमानः स (नृपः) आचारलाजैः पौरकन्याभिरिव प्रसूनैरवाकीर्यत ।
यथा हि तस्य नगरप्रवेशे पौरकन्यकाः तस्योपरि मङ्गलार्थान् निर्मलान् लाजान् वर्षन्ति तथा वने वल्लयो मारुतान्दोलितैः शाखाकरैः पावकवत् तेजसस्तस्योपरि निर्मलानि पुष्पाणि समन्तात् किरन्ति स्म, इति सरलार्थः ॥१०॥
धनुर्भृतोऽप्यस्य दयाभावमाख्यातमन्तःकरणैर्विशङ्कः। विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥११॥
धनु त इति । धनतीति धनुः । धनुर्बिभर्तीति धनु त्, तस्य धनु त:कोदण्डधारिणः । अपि । अस्य राज्ञः । एतेन भयसम्भावना दर्शिता । तथाऽपि विगता शङ्का एभ्यस्तानि विशङ्कानि, तैः विशङ्कः-निर्भीकैः । अन्तःकरणैः कर्तृभिः । दयया कृपारसेन आज़े भावोऽभिप्रायो यस्य तद् दयाभावम् । तद् आख्यायते स्मेति आख्यातम् - कथितम् । (दयार्द्रभावमेतदित्याख्यातमित्यर्थः) । "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः । तथाविधं वपुः-शरीरम् । "गात्रं वपुः संहननं शरीरं वर्ष विग्रहः" इत्यमरः । विलोकयन्तीति विलोकयन्त्यः - सादरं पश्यन्त्यः । हरिण्यः मृग्यः । अक्ष्णां नेत्राणाम् । "लोचनं नयनं १. अम० तृ० नानार्थवर्गे - २७५० । २. अम० द्वि० मनुष्यवर्गे - १२१४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org