SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २२ अनुसंधान-२६ "आरात् दूरसमीपयोः" इर्त्यमरः । अभिवर्ततेऽसौ अभिवर्तमानस्तम् अभिवर्तमानम् । मरुतो-वायोः सखा मरुत्सखः । अत्र 'राजन्सखेः' (७।३।१०६||) इति 'श्रीसिव्हे०श०' सूत्रेण सखिशब्दाद् 'अट्'समासान्तः । 'राजाहः सखिभ्यष्टच्' [५।४।९१॥] इति पाणिनीयसूत्रेण च टचि । 'अवर्णेवर्णस्य' (७।४।३८||) इति 'श्रीसिव्हे०श०' सूत्रेण इकारलुकि मरुत्सखः । 'यस्येति चे(च) [पा० ६।४।१४८] सूत्रेण इकारलोपे मरुत्सखः । आभानमिति आभा । मरुत्सखस्याऽऽभेव आभा यस्य स मरुत्सखाभः, तं मरुत्सखाभम् । 'उपसर्गादातः' (५।३।११०।) इति श्री सि०हे०श०' सूत्रेण ङि(अङि) आभा। ‘आतश्चोपसर्गे' [३।३।१०६॥] इति 'पा०' सूत्रेणाप्रत्यये आभा । अर्चयितुं योग्यः अर्यः, तम् अर्ध्य-पूज्यम् । तं दिलीपम् । प्रसूयन्ते स्मेति प्रसूनानि, तैः प्रसूनैः । 'घूङौच्-प्राणिप्रसवे' इति 'श्री सि०हे०श०' धातुपाठपठितस्य दिवादिधातोः क्तप्रत्यये, क्तस्य च "सयत्याद्योदितः' (४।२७०॥) इति 'श्री सिव्हेश०' सूत्रेण नत्वे प्रसूनानिकुसुमानि । पाणिनीयमते तु 'धुंग-प्राणिप्रसवे' तक्कर्मणि (तृतीया कर्मणि) [६।२।४८॥] इति 'क' प्रत्यये 'स्वादय ओदित' 'इत्युक्तत्वात् 'ओदितश्च' [८।२।४५॥] इति निष्ठान्तस्य नत्वे 'यस्य विभाषा' [७१२।१५॥] इति इडभावे भिसि प्रसूनैः । अत एवाऽन्येऽयम-प्राणिप्रसवे इतीच्छन्तीति पूज्याः । अदादिगणपठितस्य 'घूडौक्-प्राणिगर्भविमोचने' इत्यस्य नेदं रूपं, तदर्थासम्भवात् । तुदादिपठितस्य 'घूत्-प्रेरणे' इत्यस्याऽपि न, तदर्थासम्भवात् उदितत्वाभावेन नादेशाभावाच्च । 'पाणिनीय' मतेऽपि 'षूङ' इति दिवादिधातोरेवेदं रूपम् । तन्मते 'स्वादय ओदित' इत्योदितत्वात् 'ओदितश्चे'ति सूत्रेण तस्य नादेशः । अदादि-तुदाद्योरोदितत्वाभावेन तस्य नत्वाभावात् तदर्थासम्भवाच्च न तयो रूपम्। पुरे भवाः पौराः । कनन्ति कन्यन्ते वा इति कन्याः । पौराश्च ताः कन्याश्च पौरकन्याः, अथवा पौराणां कन्याः पौरकन्याः । श्रीसिव्हेश०' मते 'हितादिभिः' (३।१।७१॥) इति सूत्रेण तादर्थ्यचतुर्थ्यन्तसमासे, आचरणम् आचारः, आचाराय लाजाः आचारलाजाः तैः आचारलाजैः । लज्ज्यन्ते भृज्ज्यन्त इति लाजाः । लाजाशब्दो नित्यं बहुवचनान्त: । पाणिनीयमते तु अश्वघासादिवत् १. अम० तृ० नानार्थवर्गे - २८२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy