SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ December - 2003 "खगबाल्यादिनोर्वयः" इर्त्यमरः । विरवणानीति वा वि-उपसर्गपूर्वात् 'रु'धातोर्घत्रि विरावः पु० । विरूयन्ते इति विरावाः, तैः विरावैः - शब्दैः । आलोक्यते इति आलोकः, आङ्-उपसर्गपूर्वात् 'लोकृ' धातोर्घत्रि आलोकः । 'आलोको दर्शने, उद्योते, बन्दिनामालोकयेत्यादिस्तुतिवाक्ये" । आलोकनं वाऽऽलोकः । आलोकस्य शब्द:-वाचकः आलोकशब्दः, तमालोकशब्दम्; अथवाऽऽलोकश्चाऽसौ शब्दश्चाऽऽलोकशब्दः, तम् आलोकशब्दम् । आलोकयेति शब्दं राजोचितं जयशब्दमित्यर्थः । "आलोको जयशब्दः स्यात्" इति विश्वः । उदीरयामासुरिवाऽवदन्निवेत्युत्प्रेक्षा । तल्लक्षणं चेदं 'कुवलयानन्दे' संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मनाम् । उक्तानुक्तास्पदाऽद्यात्र सिद्धासिद्धास्पदे परे ॥१॥ अन्यधर्मसम्बन्धनिमित्तेनाऽन्यतादात्म्यसम्भावनमिति भावः । वाच्यपरिवर्तनं त्वेवम्- पार्श्वद्रुमैः उन्मदानां वयसां विरावैः विसृष्टपाश्र्वानुचरस्य पाशभृता समस्य तस्याऽऽलोकशब्द उदीरयामासे इव ॥ यथा राजमन्दिरे चतुष्पथादौ च सेवकाः प्रजाजनाश्च मङ्गलध्वनिभिः तं संवर्धयन्ति स्म तथाऽरण्येऽपि तन्निकटवर्तिनस्तरवः पार्श्वचरविहीनं वरुणवत्प्रभावशालिनं तं नृपं मत्तखगकुलकूजितरूपेण जयशब्देन संवर्धयामासुः, इति सरलार्थः ॥९॥ द्वाभ्यां युग्मं, त्रिभिर्विशेषकं, चतुरादिभिः कलापकं, पञ्चादिभिः कुलकमिति कृत्वाऽतः प्रभृति षड्भिः श्लोकैः कुलकेनाऽऽह । पूर्वश्लोके पार्श्वद्रुमाः सत्कारं चक्रुरस्मिंश्च बाललता, इति तत्सत्कारसमुच्चयार्थश्च शब्दः । मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्व्यमारादभिवर्तमानम् । अवाकिरन् बाललताः प्रसून-राचारलाजैरिव पौरकन्याः ॥१०॥ मरुत्प्रयुक्ताश्चेति । प्रयुज्यन्ते स्मेति प्रयुक्ताः । मरुता प्रयुक्ता मरुत्प्रयुक्ताः वायुना प्रेरिताः । बालाश्च ता लताश्च बाललताः-कोमलवल्लयः । आरात्समीपे १. अम० तृ० नानार्थवर्गे - २७९६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy