Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ अनुसंधान- २६ गोः रूपं गोरूपम् । 'श्री सि०हे०शब्द०' मते गोरूपं धरतीति गोरूपधरा । 'पाणिनीय' मते तु धरतीति धरा, गोरूपस्य धरा गोरूपधरा, तां गोरूपधराम् । ऊर्वी वसुन्धराम् । " वसुधरो ( सुधो ) व वसुन्धरा" इत्यमरः । इव । जुगोप- ररक्ष । भूरक्षणप्रयत्नेनेव ररक्षेति भावः । १४ धेनुपक्षे न अधरा अनधरा, अनधरा अधरा भूताः अधरीभूता इति 'श्रीसि०हे० श०' मतेन । 'पाणिनीय' मतेन तु अनधरा अधराः सम्पद्यमाना अधरीभूताः । पयसाऽधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुःसमुद्राम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥ वाच्यपरिवर्तनं त्वेवम् - निवर्त्य राज्ञा दयिता दयालुना सा सौरभेयी सुरभिणा यशोभिः पयोधरीभूतचतुःसमुद्रा जुगुपे गोरूपधरेवोर्वी ॥ परमदयालू राजा प्रियतमां सुदक्षिणां सुदूरगमनान्निवर्तयामास, स्वयं च तां नन्दिनीं सर्वभावेन गोसुमारेभे । मन्ये नन्दिनीरूपेण प्राप्तां चतुर्भिः स्तनैरिव चतुर्भिर्जलधिभिर्युक्तां साक्षादूर्वी पृथ्वीमिव स जुगोप, इति सरलार्थः ॥३॥ व्रताय तेनाऽनुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । -- न चाऽन्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः || ४ || व्रतायेति । व्रताय न तु जीवनायेति भाव: धयति तामिति धेनुः । अन्तर्भावितण्यर्थत्वे धयति सुतानिति वा धेनुः । तस्याः धेनोः । अनु पश्चाच्चरतीत्यनुचरस्तेनाऽनुचरेण । तेन दिलीपेन । शिष्यते इति शेष अवशिष्ट: । ‘शेष: अवशेषे अनन्ते सर्पराजे सर्पभेदे बलदेवे गजे विष्णुमूर्तिभेदे गुणीभूते च' । शिष्धातोर्घञि शेष: । अत्र त्ववशेषार्थे । अनुयान्तीत्येवं शीला अनुयायिनः, तेषामनुयायिनां वर्गः अनुयायिवर्गः अनुचरवर्गः । न्यषेधि - निवर्तितः । शेषत्वं सुदक्षिणापेक्षया । कथं तर्ह्यात्मरक्षणं तस्याऽत आह, न चेति । तस्य दिलीपस्य । शृणाति शीर्यते वा तच्छरीरं देहः । " गात्रं वपुः संहननं, शरीरं वर्ष्मविग्रहः । कायो देहः" इत्यमेरः । रक्षणं रक्षा । शरीरस्य रक्षा शरीररक्षा - देहरक्षणम् । च । अन्यस्मादिति अन्यतः - पुरुषान्तरात् । न । कुतः ? हि यस्मात्कारणात् । मनोः । १. अम० द्वि० भूमिवर्गे - ५६२ । २. अम० द्वि० मनुष्यवर्गे - १२१४-१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142