Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६
अनुसंधान - २६
|
स्वैरगतानि, तैः स्वैरगतैः - स्वच्छन्दगमनैश्च । तस्याः धेन्वाः । सम्यग् आराधनं समाराधनम् । तदेव परं - प्रधानं यस्य स तत्परः । समाराधने तत्परः समाराधनतत्परः-शुश्रूषासक्तोऽभूत् । समाराधनतत्परस्य विधेयविशेषणत्वात् विशेष्यात्परप्रयोग: । 'उद्देश्यवचनं पूर्वं विधेयवचनं पर' मिति न्यायात् । "तत्परे प्रसितासक्तौ" इर्त्यमरः ।
वाच्यपरिवर्तनं त्वेवम्- तेन सम्राजा आस्वादवद्भिस्तृणानां कवलैः कण्डूयनैर्दंशनिवारणैरव्याहतैः स्वैरगतैश्च तस्या: ( नन्दिन्या:) समाराधनतत्परेणाऽऽभावि ॥
तस्या: ओ (भो) जनार्थं सुघासमुष्टिं प्रयच्छन् गात्रखर्जनमपनयन् दुःखकरान्दंशमशकादीन् निवारयन् स्वेच्छाविहारं चाऽनुवर्तमानः सन् सः (दिलीपः) सर्वप्रकारेण नन्दिनीं सिषेवे इति सरलार्थः ॥५॥
,
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धवीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥६॥
Jain Education International
-
स्थित इति । पातीति पतिः । भुवः पतिः भूपतिः । तां - गां स्थिताम् । गत्यर्थादकर्मकाच्च धातोः कर्तरि क्तप्रत्ययविधानात् अस्थादिति स्थिता, तांसतीम् । स्थितः-सन् । स्थितिरूर्ध्वावस्थानम् । प्रायासीदिति प्रयाता, ताम् [प्रयाताम्] / प्रस्थितां सतीमुदचालीदिति उच्चलितः, प्रस्थितः सन् निषसादेति निषेदुषी । सिद्धहेममते निउपसर्गपूर्वात् सद्धातो: 'तत्र क्वसुकानौ तद्वत् (५२राशा) इति सूत्रेण 'क्वसु' - प्रत्यये तस्य च नामसंज्ञायां 'अधातूदृदितः' (२राष्४२॥) इत्यनेन स्त्रियां ङीप्' प्रत्यये 'क्वसुष्मतौ च' (२|१|१०५ | | ) इति क्वस उषादेशे निषेदुषी । पाणिनीय मते तु 'भाषायां सद-वस- श्रुवः ' [ ३|२|१०८॥ ] इति क्वसुप्रत्यये 'उगितश्च' [ ४|२|६|| ] इति ङि( ङी) पि निषेदुषी । तां निषेदुषींनिषण्णां-उपविष्टामित्यर्थः । सतीम् । आस्यते ऽस्मिन्नित्यासनमिति प्रायः सर्वत्र व्युत्त्पत्तिर्दृश्यते । तथा चाssसनस्य भूम्यादिरर्थो लभ्यते । तथा सति योगसत्काष्टाङ्गान्तर्गत-तृतीयाङ्गरूपासनपदवाच्यचतुरशीत्यासनमध्यवर्तिनः कस्याऽप्यासनस्य ग्रहणं न स्यात् । अत्र धीरशब्दबलात्तदेव योगाङ्गरूपमासनमिति गम्यते । तथा सति आस्तेऽनेनेत्यासनमिति व्युत्पत्तिः समीचीना । इयमेव व्युत्पत्तिर्वाचस्पतिमिश्रैः १. अम० तृ० विशेष्यनिघ्नवर्गे
२०४२ ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142