SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १६ अनुसंधान - २६ | स्वैरगतानि, तैः स्वैरगतैः - स्वच्छन्दगमनैश्च । तस्याः धेन्वाः । सम्यग् आराधनं समाराधनम् । तदेव परं - प्रधानं यस्य स तत्परः । समाराधने तत्परः समाराधनतत्परः-शुश्रूषासक्तोऽभूत् । समाराधनतत्परस्य विधेयविशेषणत्वात् विशेष्यात्परप्रयोग: । 'उद्देश्यवचनं पूर्वं विधेयवचनं पर' मिति न्यायात् । "तत्परे प्रसितासक्तौ" इर्त्यमरः । वाच्यपरिवर्तनं त्वेवम्- तेन सम्राजा आस्वादवद्भिस्तृणानां कवलैः कण्डूयनैर्दंशनिवारणैरव्याहतैः स्वैरगतैश्च तस्या: ( नन्दिन्या:) समाराधनतत्परेणाऽऽभावि ॥ तस्या: ओ (भो) जनार्थं सुघासमुष्टिं प्रयच्छन् गात्रखर्जनमपनयन् दुःखकरान्दंशमशकादीन् निवारयन् स्वेच्छाविहारं चाऽनुवर्तमानः सन् सः (दिलीपः) सर्वप्रकारेण नन्दिनीं सिषेवे इति सरलार्थः ॥५॥ , स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धवीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥६॥ Jain Education International - स्थित इति । पातीति पतिः । भुवः पतिः भूपतिः । तां - गां स्थिताम् । गत्यर्थादकर्मकाच्च धातोः कर्तरि क्तप्रत्ययविधानात् अस्थादिति स्थिता, तांसतीम् । स्थितः-सन् । स्थितिरूर्ध्वावस्थानम् । प्रायासीदिति प्रयाता, ताम् [प्रयाताम्] / प्रस्थितां सतीमुदचालीदिति उच्चलितः, प्रस्थितः सन् निषसादेति निषेदुषी । सिद्धहेममते निउपसर्गपूर्वात् सद्धातो: 'तत्र क्वसुकानौ तद्वत् (५२राशा) इति सूत्रेण 'क्वसु' - प्रत्यये तस्य च नामसंज्ञायां 'अधातूदृदितः' (२राष्४२॥) इत्यनेन स्त्रियां ङीप्' प्रत्यये 'क्वसुष्मतौ च' (२|१|१०५ | | ) इति क्वस उषादेशे निषेदुषी । पाणिनीय मते तु 'भाषायां सद-वस- श्रुवः ' [ ३|२|१०८॥ ] इति क्वसुप्रत्यये 'उगितश्च' [ ४|२|६|| ] इति ङि( ङी) पि निषेदुषी । तां निषेदुषींनिषण्णां-उपविष्टामित्यर्थः । सतीम् । आस्यते ऽस्मिन्नित्यासनमिति प्रायः सर्वत्र व्युत्त्पत्तिर्दृश्यते । तथा चाssसनस्य भूम्यादिरर्थो लभ्यते । तथा सति योगसत्काष्टाङ्गान्तर्गत-तृतीयाङ्गरूपासनपदवाच्यचतुरशीत्यासनमध्यवर्तिनः कस्याऽप्यासनस्य ग्रहणं न स्यात् । अत्र धीरशब्दबलात्तदेव योगाङ्गरूपमासनमिति गम्यते । तथा सति आस्तेऽनेनेत्यासनमिति व्युत्पत्तिः समीचीना । इयमेव व्युत्पत्तिर्वाचस्पतिमिश्रैः १. अम० तृ० विशेष्यनिघ्नवर्गे २०४२ । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy