SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ December 2003 १७ पातञ्जलयोगदर्शनवृत्तौ कृता । बन्धनं बन्धः । आसनस्य बन्धः आसनबन्धः । धिया राजते, धियं राति ददाति गृह्णाति वा ईरयति ईरति वा प्रेरयति गमयति वा धीरः । न च 'रांक्- दाने' इत्येव सर्वत्र धातुपाठे दर्शनात्कथं ग्रहणरूपोऽर्थः इति वाच्यम् । 'रातुं वारणमागतः' इति प्रयोगदर्शनेन कस्यचिन्मते आदानरूपार्थस्याऽपि सत्त्वात् । तथोक्तं हेमचन्द्रसूरिकृते धातुपारायणे क्रियारत्नसमुच्चये च आदाने इति कश्चित् इति । 'ईरण्-क्षेपे', क्षेप: प्रेरणम् । 'गत्यादावपीति केचित्' इत्यस्य चुरादेरयं प्रयोग: । न तु 'ईरं (रिक्) - गतिकम्पनयो 'रित्यस्याऽदादे: इ (ई) रयति इ (ई) रति इति प्रयोगकरणात् । अदादेस्तु ईर्त्ते इति प्रयोगः । आसनबन्धे धीरः आसनबन्धधीरः । पद्मासनादिबन्धेऽथवा योगपट्टकसदृशे विनीतः बलयुतः पण्डितश्चेति भावः । आसनबन्धे - उपवेशने धीर:-स्थितउपविष्टः सन्नित्यर्थः इति केचित् । सत् जलमादत्तेऽसावाददाना, तां जलं पिबन्तीं सतीम् । हेमचन्द्रसूरिमते दीक्षितमते चाऽभिलषतीत्येवं शील: अभिलाषी । जलस्याऽभिलाषी जलाभिलाषी । वृत्तिकारहरदत्तमाधवादिमते तु जलस्याऽभिलाषो जलाभिलाष:, सोऽस्याऽस्तीति जलाभिलाषी सन् । छाया इव - प्रतिबिम्बमिव । "छाया सूर्यप्रिया कान्तिः, प्रतिबिम्बमनातपः” इर्त्यमरः । अन्वगच्छत्-अनुसृतवान् । वाच्यपरिवर्तने तु- भूपतिना स्थिता स्थितेन प्रयातोच्चलितेन निषेदुषी आसनबन्धधीरेण जलमाददाना जलाभिलाषिणा सता छाययेव साऽन्वगम्यत ॥ नन्दिनी यदा चलनाद्विरराम तदा नृपोऽपि विरराम, यदा चलितुमारेभे तदा नृपोऽपि तथा । यदा निषसाद तदा नृपोऽपि तथा, यदा जलं पपौ तदा नृपोऽपि जलमपिबत् । किं बहुना ? स भूपतिः सदा छायेव तामनुजगाम, इति सरलार्थः ||६|| स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥७॥ स इति । न्यस्यन्ते स्मेति न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि १. अम० तृ० नानार्थवर्गे २६५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy