Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 25
________________ १८ अनुसंधान-२६ यस्याः सा न्यस्तचिह्ना, तां तथाभूतामपि । विशेष्यते इति विशेषः । तेजसो विशेषः तेजोविशेषः । अनुमीयते स्मेति अनुमिता । तेजोविशेषेण-प्रभावातिशयेन अनुमिता तेजोविशेषानुमिता, तां तेजोविशेषानुमिताम् - प्रतापातिशयतर्किताम् । सर्वथा राजा इवाऽयं भवेदित्यूहिताम् । राज्ञः लक्ष्मीः राजलक्ष्मीः, तां राजलक्ष्मीम् । धत्तेऽसौ दधानः । स राजा । आविष्क्रियते स्मेति आविष्कृता, न आविष्कृता अनाविष्कृता । दानस्य राजिः दानराजिः । अनाविष्कृता दानराजिउँन स अनाविष्कृतदानराजि:-बहिरप्रकटितमदरेखः । "गण्डः कटो मदो दानम्" इत्यमरः । मदस्य अवस्था मदावस्था । अन्तर्गता मदावस्था यस्य स अन्तर्मदावस्थः । तथाभूतोऽभ्यन्तरदानदशः । द्वाभ्यां शुण्डतुण्डाभ्यां पिबन्तीति द्विपाः । इन्दतीति इन्द्रः । द्विपानामिन्द्रः द्विपेन्द्रः । इव यथा । समदभद्रजातीयो गजपतिरिवेत्यर्थः । "द्विरदोऽनेकपो द्विपः, मतङ्गजो गजो नागः" इत्यमरः । वाच्यपरिवर्तनं त्वेवम् - तेन (राजा) न्यस्तचिह्नामपि तेजोविशेषानुमितां राजलक्ष्मी दधानेन (सता) अनाविष्कृतदानराजिना अन्तर्मदावस्थेन द्विपेन्द्रेणेवाऽभूयत ॥ समदभद्रजातीयो गजपतिर्यद्यपि मदवारिभिरन्तर्गतां निजां मदावस्थां न प्रकटीकरोति, तथाऽपि तस्य तेजःशालिना मूतिवि(तिवि)शेषेण यथा मनुष्यस्तां मदावस्थां निश्चेतुं समर्थो भवति; तथा स दिलीपो व्रतबन्धाद्यद्यपि छत्रचामरालङ्कारादिभिः निजां राजलक्ष्मी नाऽधत्त, तथाऽपि तस्य प्रभावशालिना मूर्तिविशेषेणैव जनस्तस्य राज्यश्रियमनुमातुं शशाक, इति सरलार्थः ॥७॥ लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥८॥ लतेति । अत्र प्रतानशब्दस्य भावघजन्तत्वाभावान्न पुंस्त्वमेव । 'वेदाः प्रमाण'मितिवत्सामान्यविवक्षायां प्रतन्यते एभिरिति करणे नपुंसकत्वमपि । अथवा 'विशेष्यलिङ्गानुसारित्वा'दत्र पुंस्त्वमपि । प्रतन्यते इति प्रताना इति व्युत्पत्तौ पुंस्त्वमपि । लतानां-वल्लीनां प्रतानः(नाः) प्रतानानि वा लताप्रतानाः लताप्रतानानि १. अम० द्वि० क्षत्रियवर्गे - १५४१ । २. अम० द्वि० क्षत्रियवर्गे - १५३५-३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142