Book Title: Anusandhan 2003 12 SrNo 26
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
December - 2003
स्वरादिलोपे अधिपः । 'पाणिनिमते तु 'पा-रक्षणे' धातोः 'आतश्चोपसर्गे' (३।१।१३६||) इति सूत्रेण 'क' प्रत्यये 'आतो लोप इटि च' (६।४।६[४]I) इति सूत्रेणाऽऽकारलोपेऽधिप: । अधिप ईश्वरः । "अधिपस्त्वीशो, नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः, प्रभुर्भतेश्वरो विभुः, ईशितेनो नायकश्च" इति हैमः ।
जायतेऽस्यां वेति जाया । प्रतिग्राह्येते स्मेति प्रतिग्राहिते । माला एव माल्यम्, अथवा मालायै हितं माल्यम् । गन्धश्च माल्यं च गन्धमाल्ये । जायया -सुदक्षिणया प्रतिग्राहिते-स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां जायाप्रतिग्राहितगन्धमाल्याम् । तथोक्ताम् ।
'सिद्ध द्ध हेम' मते 'गत्यर्थाऽकर्मक-पिबभुजेः (५।१।११॥) इति सूत्रेण सूत्रोक्तधात्वतिरिक्तधातुभ्यः कर्तरि क्तप्रत्ययस्य विधानाभावात् न तु कर्तरि क्तः । अत एव भाष्यकारः "पीता गावो भुक्ता ब्राह्मणा इत्यादावकारो मत्वर्थीयः" इत्युक्तवान् । भावे 'क्त' प्रत्यये पीतं पानं तदस्याऽस्तीति पीतः पीतवानित्यर्थः । 'अभ्रादिभ्यः' (७।२।४६।।) इति 'श्री सिव्हेश०' सूत्रेण 'अ' प्रत्ययः । 'अर्शादि (आदि)भ्योऽच्' [५।३।१२७॥] इति 'पा०' सूत्रेण 'अच्' प्रत्ययः । अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति 'वार्तिककार' मते उत्तरपदस्य पयसो लोपोऽत्र द्रष्टव्यः । अत्र संज्ञायामेव पूर्वोत्तरपदयोर्लोप इति वार्तिककाराशयः । तत्संवादिसंज्ञायामेव पूर्वोत्तरपदलोपविधायि सिद्धहेमशब्दानुशासनस्थं 'ते लुग्वा' (३।२।१०८॥) इति सूत्रम् । इममेवाऽऽशयं बुद्ध्वा कैयटो लोपशब्दार्थमाह- 'गम्यार्थप्रयोग एव लोपोऽभिमतः ।' पयसो यत्पीतत्वं तद् गोष्वारोप्यते । एतन्मते पीतं पयो येन स पीतः । प्रतिबद्ध्यते स्मेति प्रतिबद्धः । पीतश्चासौ प्रतिबद्धश्च पीतप्रतिबद्धः । अर्थात् पूर्वं पीतः पश्चात् प्रतिबद्धः पीतप्रतिबद्धः । पीतप्रतिबद्धो वत्सो यस्याः सा प्रीतप्रतिबद्धवत्सा, तां पीतप्रतिबद्धवत्साम् ।
'सिद्धहे०श०' मते 'ऋषैत्-गतौ 'पाणिनीय' मते च 'ऋषी गता' विति धातोः ऋषतीति ऋषिः । ऋषिः 'मन्त्रद्रष्टरि मुनौ वेदे अनुष्ठेयज्ञापकसूत्रकृदाचार्ये गोत्रप्रवरप्रवर्तके मुनौ च' वर्तते । तस्य ऋषेः । 'श्री सिव्हे०' मते १. अभि० चि० तृ० ३५८-३५९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142