Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्तु यत् किमपि स्यात्, प्राचीनविद्वत्परम्परामनुसरता स्वकीयश्लाघानिरपेक्षेणाऽनेनाऽपि स्वकीयेऽस्मिन् कोषे देश-काल-जाति-वंश-गुरु-पितृ-मातृ-प्रभृतिपरिचय प्रदानमुखरा कापि सामग्री क्वापि नोकिता। सम्प्रति दिवङ्गतोऽप्ययम् 'अमरः', सर्वथा स्वात्मानं गोपायितुकामोऽपि 'सिंह' आसीदेव, नात्र वैमत्यं कस्यापि । रचना-अमरसिंहस्य केवलं नामलिङ्गानुशासनमेवोपलभ्यते । मुकुटस्तु ‘पद'चन्द्रिकायां' बृहदमरकोषमपि बहुत्र निर्दिशति, तत्र वयं तूष्णींभावं भजामः । एवं सदुक्तिकर्णामृते-अमरसिंहस्य नाम्ना पञ्च पद्यानि समुद्धृतानि सन्ति यदि सोऽयमेवाऽऽसीत्त हि अयं कवित्वेनाऽपि स्वीकर्तव्यः । अथवा काव्यरचयिता स्यादन्यः कश्चिदमरसिंहः, यतोऽस्य वर्णनं नान्यत्र सुलभम् । विषयेऽस्मिन् विदुषां सन्ति विभिन्ना धारणा: । 'काव्यकल्पलतायाः' कर्ता श्वेताम्बरजैनः-अमरचन्द्रः सर्वथाऽर्वाचीन इति ज्ञातव्यः ।। अमरकोषस्य टीका:-अमरकोषापराभिधस्य नामलिङ्गानुशासनस्य सुप्रसिद्धत्वात् सुधीजनप्रियत्वाच्च तदाशयविशदीकरणबद्धपरिकरैः पण्डितप्रवरैः समये समयेऽस्य बह्वयष्टीकाः समुल्लिखिताः सन्ति । तासां नामोल्लेखः पिपठिषूणां ज्ञानवर्धनायाऽत्र विधीयते । कौमूदी व्याख्याः व्याख्याकाराः व्याख्या: व्याख्याकाराः व्याख्याप्रदीपः अच्युतोपाध्यायः अमरविवेकः महेश्वरः काशिका काशीनाथः मधुमाधवी माधवः अमरकोषोद्धाटनम् क्षीरस्वामी पदचन्द्रिका मुकुट: नयनानन्दः त्रिकाण्डचिन्तामणिः रघुनाथचक्रवर्ती पदार्थकौमुदी नारायणचक्रवर्ती | त्रिकाण्डविवेकः रामनाथविद्यावाचस्पतिः शब्दार्थसन्दीपिका नारायणविद्याविनोद: प्रदीपमञ्जरी रमेश्वरः अमरपञ्जिका नारायणवेदान्तवागीशः पीयूषम् रामकृष्णदीक्षितः सुबोधिनी नीलकण्ठः वैषम्यकौमुदी रामप्रसादतर्कालंकारः अमरचन्द्रिका परमानन्दमैथिल: । पदविवृतिः लिङ्गयसूरिः मुग्धबोधिनी भरतमल्लिकः पदमनरी लोकनाथः व्याख्यासुधा रामाश्रमः टीकासर्वस्वम् सर्वानन्दः शारदासुन्दरी मथुरेशविद्यालंकारः व्याख्यामृतम् । अज्ञातः विद्वन्मनोहरा महादेववेदान्ती सन्देहभञ्जिका अज्ञातः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 304