Book Title: Amar Kosh Author(s): Bramhanand Tripathi Publisher: Chaukhamba Surbharti Prakashan View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वाङ्मुखम् अयि ! मान्याः !! सुरभारतीसमाराधनसमुपलब्धयशोराशयः सुधियः !!! सुविदितमेव तत्रभवतां भवतां यत् पुरुषार्थचतुष्टयप्राप्तिरेव समेषां मानवानां परमलक्ष्यत्वेन दृष्टिपथमायाति । सा च निगमागमस्वाध्यायफलाऽधीना, तेषाञ्च वाङ्मयी सम्पन् शब्दसन्दोहमयी, शब्दानां व्युत्पत्तिर्व्याकरणाऽऽश्रिता, तेषामर्थज्ञानं निरुक्ताऽऽधीनम् । व्याकरणं निरुक्तचैतदुभयमपि वेदाङ्गत्वेन सुप्रसिद्धम् । श्रुतीनामर्थबोधाय यत् स्थानं निरुक्तानां तदेव समस्तस्य संस्कृतवाङ्मयस्य पदार्थबोधनाय कोष - साहित्यस्य बाभाति । - Acharya Shri Kailassagarsuri Gyanmandir 3 संस्कृतवाङ्मयस्य परिसीमां निश्रेतुं न कोऽपि सक्षमः पुरुषायुषजीवी । सर्वं हि ज्ञानं परब्रह्मनिश्वसिताम्नायनिचितं विविधस्मृतिसमुदायसङ्गतम्, आदिकाव्यरामायणरसितं, व्यासोक्तभारताद्यष्टादशपुराणपूरितं सङ्ख्या तीतोपनिषदां प्रतानसन्तानितम्, आयुर्वेद धनुर्वेद-स्थापत्य वेदादिविदितं, ज्योतिश्शास्त्रज्ञानप्रकाशितं, दण्डनीति-राजशास्त्राऽर्थशास्त्र -भूशास्त्रादिशास्त्र सन्दोहसङ्कुलं, विविधकाव्याऽऽख्याननाटककथाऽऽदिभिः सरसीकृतं, नानादर्शनरमणीयं शङ्कर - मण्डनमिश्र - गार्गी-भोजकालिदास - भारवि भवभूति - बाण -हर्ष-माघ-मम्मट - जगन्नाथ प्रभृतिकविवरततिविततम्, तन्त्र-मन्त्रप्रमुखशास्त्रसमुदायसमुपबृंहितं च विद्योततेतमाम् । एतस्य तत्वार्थबोधाय कोषाणां साहाय्यं सुतरामपेक्षत एव । , कोषस्य महत्वम् - विदुषां शब्दविद्या ( सम्पूर्ण वाङ्मयं ) राज्ञां च प्रजा यदि संसारेऽस्मिन् केनाप्येकेनोपायेन वशतां याति तत् कोषसङ्ग्रहमेव । अतएवेयमभियुक्तोक्तिः सुप्रसिद्धा , 'विदुषां भूभुजां वापि शब्दविद्या तथा प्रजा । संसारे वशतामेति न विना कोषसङ्ग्रहम्' ।। इति । एवं सङ्ख्यातीतेषु कोषेषु सत्सु केचन केवलं नामानुशासनस्वरूपास्तदितरे लिङ्गानुशासनमात्रकलेवराः समुपलभ्यन्ते । तेषु एष 'अमरकोषः ' प्रसिद्धेः परां - कोटिमाटीकते, नामलिङ्गोभयानुशासनस्फीतकलेवरत्वात् । अमरकोषस्य तृतीयकाण्डस्थममुष्य व्याकरणविवेचनमालोक्यैव केनापि बौद्धमताऽसहिष्णुना प्रचारिता मर्म - भेदनप्रवणाऽपि सूक्तिरियम्- 'अमरसिहो हि पापीयान् सर्वं भाष्यमचूचुरत्' । इति । किश्व व्याकरणशास्त्रकर्तृषु पठ्यतेऽन्यतमोऽमरः । तद् यथा For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 304